SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ १५१० महामुनिश्रीव्यासप्रणीतं [ ६ उत्तरखण्डे १७ यत्र वै सकलान्येव पतितानीह भूतले । वारिणा स्पर्शमात्रेण शुद्धत्वं यान्ति तान्यपि ॥ १६ अत्र श्राद्धं प्रकुर्वाणो नरो वै भक्तितत्परः । पितरस्तस्य संतुष्टा गच्छन्ति परमं पदम् ॥ एतदाख्यानकं दिव्यं ये शृण्वन्ति नराः सदा । सर्वपापविनिर्मुक्ता विष्णोः सायुज्यमामुयुः १८ कर्मणा मनसा वाचा ये स्तुवन्ति महेश्वरम् । न तेषां विद्यते दुःखं यावदाभूतसंप्लवम् ॥ १९ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमामहेश्वरसंवादे नन्दितीर्थमहिमकथनं नाम द्वात्रिंशदधिकशततमोऽध्यायः ॥ १३२ ॥ आदितः श्लोकानां समथ्यङ्काः – ३८३२८ अथ यस्त्रिंशदधिकशततमोऽध्यायः ॥ श्रीमहादेव उवाच - ४ अर्थ मुन्युपदेशेन यथा साभ्रमती नदी । समायाता विकीर्णे च वनं विप्रर्षिसेवितम् ॥ बहुधा जलवेगेन पर्वतानां च रोधतः । सप्तधा प्रविभक्ता सा दक्षिणोदधिगामिनी ॥ आद्या साभ्रमती पुण्या द्वितीया सेदिका (श्वेतका) तथा । तृतीया बैकुला पुण्या चतुर्थी च हिरण्मयी सर्वपापहरा प्रोक्ता इस्तिमत्यथ पञ्चमी । वेत्रवती सा षष्ठी स्याद्वृत्रेण निर्मिता पुरा ॥ इयं सा परमा देवीकूपाद्विनिःसृता । वेत्रवती ततो जाता महापापप्रणाशिनी ॥ भद्रमुखी सुभद्रा या सप्तमी लोकपावनी । एतैस्तु सप्तभिर्देवि तांस्ताञ्जनपदानथ || पवित्रीकृत्य चैकेन सप्तस्रोताः प्रतिष्ठिता । विकीर्णतीर्थे यः श्राद्धं पितृनुद्दिश्य दास्यति ॥ गयापिण्डप्रदानस्य फलं यत्तद्भविष्यति । अवकीर्णाच्युता ये च लुप्तपिण्डोदक क्रियाः ॥ ८ ते विकीर्णे प्रमुच्यन्ते दत्ते पिण्डोदकादिके । तत्र श्राद्धं तु यः कुर्याद्वाणपत्यं भवेद्ध्रुवम् ॥ ९ तस्मात्री विधानेन श्रद्धया श्राद्धमाचरेत् । अस्मिंस्तीर्थे विशेषेण सप्तनद्युदये द्विजाः ॥ स्नानं कुरुत विन्द्रा ऋषिलोकमभीप्सवः । इत्युक्तं कश्यपेनाथ द्विजान्प्रति विशेषतः ॥ यदि चेत्क्रियते स्नानं सर्वदुःखापहः सदा । तीर्थानां प्रवरं तीर्थ क्षेत्राणामुत्तमोत्तमम् ॥ तीर्थमेतद्विकीर्ण च शुभदं रोगदोषहृत् । कुर्वन्त्यत्र विशेषेण ये स्नानं सर्वदा कलौ ॥ ते नराः पुण्यभाजो हि जायन्ते नात्र संशयः । गयातीर्थसमं तीर्थ विकीर्ण पावनं परम् ॥ पितॄणां पुण्यदं नित्यं लोकानां दुःखनाशनम् || * इति विकीर्णतीर्थम् । १० ११ १२ १३ १४ १५ १६ १७ तीर्थादस्मात्परं तीर्थ श्वेतोद्भवमनुत्तमम् । यत्र श्वेता नदीं जाता संस्पृष्टोदरभस्मना ॥ विश्रुता त्रिषु लोकेषु सर्वपापप्रणाशिनी । हराङ्गभस्मसंयोगाज्जाता देवैस्तु मानिता || तस्यां स्नातः शुचिर्दान्तस्त्रिरात्रमुषितः पुमान् । महाकालेश्वरं दृष्ट्वा रुद्रलोके महीयते ।। पिण्डान्पितृभ्यो यो दद्यात्तस्यास्तीरे कुशैस्तिलैः । सुतृप्ताः पितरस्तस्य भवन्तीति न संशयः ॥ श्वेतगङ्गा महापुण्या दुःखदारिद्र्यमोचनी । यत्र स्नात्वा तु भो देवि परं (द) गच्छति तस्य वै १९ तस्या वै संगमे पुण्ये नित्यं तिष्ठामि पार्वति । यच्च दानं प्रकुर्वन्ति स्नानं वै तत्र सुन्दरि ॥ २० 6 ू * अत्र झ. संज्ञित पुस्तकेऽध्यायसमाप्तिर्वर्तते । १ इ. ञ. तत्त्वं ॥ २ क. ज. 'थ नन्दिप्रदेशात्तु य । ३ क वल्किनी । ङ वल्कला | ४. खी सुखं प्राप्या ख. ज. फ. 'खी शुभप्राया । ५ ङ. झ. विचित्रीकृत्य' । ६ ङ. ज. संत्रकेद्र' । ७ ज. नं चैत्र तु मु ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy