SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ ७८ १२५ पञ्चविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् । कृष्ण उवाचतीर्थेषु कार्तिकी कुर्यात्सर्वयत्नेन भामिनि । संवत्सरव्रतानां तु समाप्तिः कार्तिको मतः ॥ ६९ पापस्य प्रतिमा कार्या रौद्रवस्त्रादिभीषणा । खड्गहस्ता विनिष्क्रान्ता लोहदंष्टा करालिनी ॥७० तिलप्रस्थोपरि स्थाप्य कृष्णवस्त्राभिवेष्टिता । रक्तपुष्पकृतापीडा ज्वलत्काञ्चनकुण्डला ॥ ७१ संपूज्य परया भक्त्या धर्मराजस्य नामभिः । इममुच्चारयेन्मत्रं गृहीतकुसुमाञ्जलिः ॥ ७२ यदन्यजन्मनि कृतमिह जन्मनि वा पुनः । पापं प्रशममायातु तव पादप्रसादतः॥ एवं संपूज्य विधिवत्पतिमां तां च काञ्चनीम् । कृत्वा पूजां यथाशक्त्या(क्ति) विप्राणां वेदवादिनाम् प्रीतये देवदेवस्य कृष्णस्याक्लिष्टकर्मणः । ब्राह्मणाय प्रदातव्यं ['धर्मो मे प्रीयतामिति ॥ ७५ वाचकाय प्रदातव्यं यथाशक्त्या(क्ति) च दक्षिणाम् । दद्याद्धिरण्यगाश्चैव कृष्णो मे प्रीयतामिति कृतकृत्यः स्थितो भूत्वा विरक्तः संयतो भवेत् । अन्येषामपि दातव्यं स्वशक्त्या दानमुत्तमम् शान्तचित्तो निराबाधः परं पदमवामुयात् । नीलोत्पलदलश्यामश्चतुर्दष्टश्चतुर्भुजः।। अष्टपादैकनयनः शङ्कुकर्णो महास्वनः । जटी द्विजिहस्ताम्राक्षो मृगराजतनुच्छदः॥ ७९ चिन्तनीयो महादेवो यस्य रूपं न विद्यते । इदं भीष्मेण कथितं शरतल्पगतेन मे ॥ ८० तदेतत्ते मयाऽऽख्यातं दुष्करं भीष्मपञ्चकम् । धन्यं पुण्यं पापहरं युधिष्ठिरमहाव्रतम् ॥ यत्कृत्वा ब्रह्महा गोनः सर्वपापैः प्रमुच्यते ॥ यद्भीष्मपञ्चकमिति प्रथितं पृथिव्यामेकादशीप्रभृति पञ्चदशीनिरुद्धम् । उत्पन्नभोजनपरस्य तदा निषेधस्तस्मिन्नते शुभफलं प्रददाति विष्णुः॥ ८२ सूत उवाचएतत्सर्वाधिकं पुण्यं दुर्लभं भवते कलौ । इदं गुह्यं मयाऽऽख्यातं शास्त्रसारसमुच्चयम् ॥ ८३ कृष्ण उवाचसुराणां गोपितं सर्व परं गुह्यं च मोक्षदम् । श्रुत्वा(तं) चैकपदे देवि अगम्यागमने रतः॥ ८४ कन्याविक्री स्वसाविक्री उभयं तु वि(स्वसृविक्रयिणौ सर्वानेतांस्तु)मोचयेत् ॥ ईश्वर उवाचमोक्षदं च इदं शास्त्रं प्रकाश्यं नेतरे जने । श्रुत्वा चे(शृणोत्ये)कपदे यस्तु मोक्षं गच्छति मानवः। गोपनीयं प्रयत्नेन ये चापि त्यागिनो नराः। न तेषां कथ्यते पुण्यं सत्यं सत्यं च षण्मुख ॥ इत्येतत्सर्वमाख्यातं कार्तिकस्य तु यत्फलम् ॥ श्रीविष्णुरुवाचकथितं देवदेवेन पुत्राय हितकाम्यया । पितुस्तद्वाक्यमाकर्ण्य षण्मुखो हर्षनिर्भरः ॥ ८८ ऊचुः पाञ्जलयः सर्वे तं देवं जगदायुषम् । कृतकृत्या वयं जाताः श्रुत्वा कार्तिकजं फलम् ८९ अपरं नास्ति श्रोतव्यं प्राप्तं नो जन्मनः फलम् । माहात्म्यमेतदाकर्ण्य पूजयेद्यस्तु पाठकम् ॥९० गोभूहिरण्यवस्त्रैश्च विष्णुतुल्यो यतो हि सः । वाचके पूजिते यस्माद्विष्णुर्भवति पूजितः ॥ ९१ तस्मात्तं पूजयेन्नित्यं यदीच्छेत्सफलं श्रुतम् । धर्मशास्त्रं पुराणं च वेदविद्यादिकं च यत् ॥ ९२ पुस्तकं वाचकायैव दातव्यं धर्ममिच्छता । पुराणविद्यादातारो ह्यनन्तफलभोजिनः ॥ ९३ + धनुश्चिद्वान्तर्गतः पाठो न. पुस्तकस्थः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy