________________
१२५ पञ्चविंशत्यधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१४९१ उपवासं प्रबोधिन्यां यः करोति स्वभावतः । विधिना नरशार्दूल यथोक्तं लभते फलम् ॥ ८ पूर्वजन्मसहस्रेषु पापं यत्समुपार्जितम् । जागरेण प्रबोधिन्यां दह्यते तूलराशिवत् ॥ ९ शृणु षण्मुख वक्ष्यामि जागरस्य च लक्षणम् । यस्य विज्ञानमात्रेण दुर्लभो न जनार्दनः ॥ १० मीतं वाद्यं च नृत्यं च पुराणपठनं तथा । धूपो दीपश्च नैवेद्यः पुष्पगन्धानुलेपनम् ॥ ११ फलमयं च श्रद्धा च दानमिन्द्रियसंयमः । सत्यान्वितं विनिद्रं च मुदायुक्तं क्रियान्वितम् ।।१२ साश्चर्य चैव सोत्साहमालस्यादिविवर्जितम् । प्रदक्षिणादिसंयुक्तं नमस्कारपुरःमरम् ॥ १३ नीराजनसमायुक्तमनिविण्णेन चेतसा । यामे यामे महाभाग कुर्वन्नीराजनं हरेः॥ १४ एतैर्गुणः समायुक्तं कुर्याजागरणं विभोः । एकाग्रमनसा यस्तु न पुनर्जायते भुवि ॥ १५ य एवं कुरुते भक्त्या वित्तशाठ्यविवर्जितः । जागरं वासरे विष्णोर्लीयते परमात्मनि ॥ १६ पुरुषसूक्तेन यो नित्यं कार्तिके ह्यर्चयेद्धरिम् । वर्षकोटिसहस्राणि पूजितस्तेन केशवः ॥ १७ यथोक्तेन विधानेन पाञ्चरात्रोदितेन वै । कार्तिके त्वर्चयनित्यं भुक्तिभागी भवेन्नरः॥ १० नमो नारायणायेति कार्तिके योऽयेद्धरिम् । स मुक्तो नारकेदुःखेः पदं गच्छत्यनामयम् १९ हरेर्नामसहस्राख्यं नागराजस्य मोक्षणम् । कार्तिके पठते यस्तु पुनर्जन्म न विन्दति ॥ २० युगकोटिसहस्राणि मन्वन्तरशतानि च । द्वादश्यां कार्तिके मासि जागरी वसते दिवि ॥ २१ कुले तस्य च ये जाताः शतशोऽथ सहस्रशः । प्रामुवन्ति पदं विष्णोस्तस्मात्कुर्वीत जागरम् २२ कार्तिके पश्चिमे यामे स्तवगानं करोति यः। श्वेतद्वीपे तु बसते पितृभिः सह भामिनि(पण्मुख)। नैवेद्यदानं हरये कार्तिके दिनसंक्षये(?) । युगानि वसते स्वर्गे तावन्ति मुनिसत्तम ॥ २४ अक्षयं मुनिशार्दूल मालतीकमलार्चनम् । अर्चयेदेवदेवेशं स याति परमं पदम् ॥ कार्तिके शुरूपक्षे नु कृत्वा ह्येकादशी नरः । प्रातर्दत्वा शुभान्कुम्भान्प्रयाति मम(हरि)मन्दिरम् ॥
कार्तिकेय उवाचयदेतद्वचनं पुण्यं व्रतानां परमं व्रतम् । कर्तव्यं कार्तिके मासि भवता भीष्मपश्चकम् ॥ २७ विधानं तस्य च फलं तथैव सुरसत्तम । कथयस्व प्रसादान्मे मुनीनां च पितामह ॥ २८
ईश्वर उवाचप्रवक्ष्यामि महापुण्यं व्रतं व्रतवतां वर । भीष्मेणेतद्यतः प्राप्तं व्रतं पश्चदिनात्मकम् ॥ २९ सकाशाद्वासुदेवस्य तेनोक्तं भीष्मपञ्चकम् । व्रतस्यास्य गुणान्वक्तुं कः शक्तः केशवाने ॥ ३० कार्तिक शुक्लपक्षे तु शृणु धर्म पुरातनम् । वसिष्ठभृगुगर्गाद्यैश्वीर्ण कृतयुगादिषु ॥ अम्बरीषेण भोगाद्यैश्वीर्ण त्रेतायुगादिषु । ब्राह्मणैर्ब्रह्मचर्येण जपहोमक्रियादिभिः॥ क्षत्रियैश्च तथा वैश्यः सत्यशौचपरायणः । दुष्करं सत्यहीनानामशक्यं बालचेतमाम् ॥ ३३ दुष्कर भैष्ममित्याहुन शक्यं प्राकृतैनरैः । यस्तत्करोति विपेन्द्र तेन सर्व कृतं भवेत् ॥ ३४ व्रतं चैतन्महापुण्यं महापातकनाशनम् । अतो नरैः प्रयत्नेन कर्तव्यं भीष्मपञ्चकम् ॥ ३५ कार्तिकस्यामले पक्षे स्नात्वा सम्यविधानतः। एकादश्यां तु गृह्णीयाव्रतं पञ्चदिनात्मकम्॥३६ प्रातः स्नात्वा विशेषेण मध्याह्ने च तथा व्रती । नद्यां निर्झरगर्ने वा ममालभ्य च गोमयम् ३७ यवत्रीहितिलैः सम्यक्पितून्संतर्पयेत्क्रमात् । स्नात्वा मौनं नरः कृत्वा धोतवासा दृढव्रतः ॥ ३८
१५. त्वं मक्ति।