________________
१४८६
महामुनिश्रीव्यासप्रणीतं -
[ ६ उत्तरखण्डे -
१३
१६
१७
१८
श्रीचन्दनं सकर्पूरमगरुं च सुकुङ्कुमम् । केतकीदीपदानं तु सर्वदा केशवप्रियम् ।। कार्तिके केतकीपुष्पं दत्तं येन कलौ युगे (?) । दीपदानं महासेन कुलानां तारयेच्छतम् ॥ १४ सरोरुहाणि तुलसी मालती मुनिपुष्पकम् । कार्तिके यदि तान्ये ( तारयन्त्ये ) व दीपदानं तु पश्चमम् मालतीमालया येन कार्तिके पुष्पमण्डपम् । केशवस्य कृतं वत्स वसतिर्दिवि तस्य च ॥ hair पुष्पकेणैव पूजितो गरुडध्वजः । समाः सहस्रं सुप्रीतो जायते मधुसूदनः ।। अर्चयित्वा हृषीकेशं कुसुमैः केतकी भवैः । पुण्यं तद्भवनं याति केशवस्य शिवं गुह ॥ दमनकेनापि देवेशं संप्राप्ते मधुमाधवे । गोशतस्य मुनिश्रेष्ठ ह्यर्चनाल्लभते फ (यित्वा लभेत्फ लम् अगस्तिकुसुमैर्देवं योऽर्चयेत्तु जनार्दनम् । दर्शनात्तस्य भो विप्र नरकाग्निः प्रणश्यति ।। न तत्करोति [ + विप्रर्षे तपसा तोषितो हरिः । यत्करोति ] महासेन मुनिपुष्पैरलंकृतः ॥ २१ विहाय सर्वपुष्पाणि मुनिपुष्पेण केशवम् । कार्तिके योऽर्चयेद्भक्त्या वाजिमेधफलं लभेत् ॥ मुनिपुष्पकृतां मालां यो दास्यति जनार्दने । देवेन्द्रोऽपि मुनिश्रेष्ठ कुरुते तस्य संकथाम् ॥ गवामयुतदानेन यत्फलं प्राप्यते गुह । मुनिपुष्पेण चैकेन कार्तिके लभते फलम् ॥ कौस्तुभेन यथा प्रीतो यथा च वनमालया । तुलसीदलेन संप्रीतः कार्तिके च तथा हरिः
२०
२२
२३
२४
|| २५
सूत उवाच -
प्रश्रयावनतं दृष्ट्वा कुमारं भक्तितत्परम् । पुनः प्रोवाच भगवान्महादेवो वृषध्वजः ॥ २६
श्रीमहादेव उवाच -
२८
२९
३०
३१
३२
शृणु दीपस्य माहात्म्यं कार्तिके शिखिवाहन । पितरचैव वाञ्छन्ति सदा पितृगणैर्वृताः || २७ भविष्यति कुलेऽस्माकं पितृभक्तः सुपुत्रकः । कार्तिके दीपदानेन यस्तोषयति केशवम् ॥ घृतेन दीपको यस्य तिलतैलेन वा पुनः । ज्वलते यस्य सेनानीरश्वमेधेन तस्य किम् ॥ तेनेष्टं क्रतुभिः सर्वैः कृतं तीर्थावगाहनम् । दीपदानं कृतं येन कार्तिके केशवाग्रतः ॥ कृष्णपक्षे विशेषेण पुत्र पञ्च दिनानि तु । पुण्यानि तेषु यद्दत्तमक्षयं सार्वकामिकम् । एकादश्यां परैर्दत्तं दीप प्रज्वाल्य मूषिका । मानुष्यं दुर्लभं प्राप्य परां गतिमवाप सा ॥ लुब्धकोऽपि चतुर्दश्यां पूजयित्वा महेश्वरम् । निर्भक्तिं परमां प्राप्य विष्णुलोकं जगाम सः ३३ श्वपाकी स्वाश्रयाद्वेश्या दीपं कृत्वा परैः कृतम् । शुद्धा लीलावती भूत्वा जगाम स्वर्गमव्ययम् ।। गोपः कश्चिदमावस्यां पूजां दृष्ट्वा तु शार्ङ्गिणः । मुहुर्मुहुर्जयेत्युक्त्वा राजराजेश्वरोऽभवत् ॥ ३५ तस्माद्दीपाः प्रदातव्या रात्रावस्तमिते रवौ । गृहेषु सर्वगोष्ठेषु चैत्येष्वायतनेषु च ॥ ३६ देवालयेषु देवानां श्मशानेषु सरित्सु च । घृतादिना शुभार्थाय यावत्पञ्च दिनानि च ।। ३७ पापिनः पितरो ये च लुप्तपिण्डोदकक्रियाः । [तेऽपि यान्ति परां मुक्ति दीपदानस्य पुण्यतः ] चतुर्दश्याममावस्यां दत्तं ते प्रामुवन्ति हि । अतोऽर्थ कौमुदीनामाख्याता ते शिखिवाहन (?) ३९ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे पुष्पदीपधात्रीफलवर्णनं नाम त्रयोविंशत्यधिकशततमोऽध्यायः ॥ १२३ ॥ ( ३४ ) आदितः श्लोकानां समष्ट्यङ्काः--३७७०६
+ धनुश्चिह्नान्तर्गतः पाठः क. ख. च. ज. झ. अ. पुस्तकस्थः । इदमर्ध क. च. ज. झ. पुस्तकस्थम् ।
१ क. च. ज. केतकी । २ क. च. ज. झ. म् । केतकीमाल' । ३ क. च. ज. झ. षु यो दत्ते दीपं सोऽक्षयमानु
यात् । ए' ।
评