SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ ११८ अष्टादशाधिकशततमोऽध्यायः] पद्मपुराणम् । १४७५ यावदगी चकारासौ लक्ष्मी भार्यार्थमात्मनः । तावद्विज्ञापयामास लक्ष्मीस्तं चक्रपाणिनम् ॥ ३ लक्ष्मीरुवाचअसंस्कृत्य कथं ज्येष्ठां कनिष्ठा परिणीयते । तस्मान्ममाग्रजामेतामलक्ष्मी मधुसूदन ॥ विवाह्य नय मां पश्चादेष धर्मः सनातनः ॥ सूत उवाचइति तद्वचनं श्रुत्वा स विष्णुर्लोकभावनः । उद्दालकाय मुनये सुदीर्घतपसे तथा ॥ आत्मवाक्यानुरोधेन तामलक्ष्मी ददौ किल । स्थूलास्यां शुभ्रदशनां जरठां बिभ्रती तनुम् ॥६ विततां रक्तनयनां रूक्षपिङ्गशिरोरुहाम् । स मुनिर्विष्णुवाक्यात्तामङ्गीकृत्य स्वमाश्रमम् ।। ७ वेदध्वनिसमायुक्तमानयामास धर्मवित् । होमधूपसुगन्धाढ्यं वेदघोषनिनादितम् ॥ आश्रमं तं समालोक्य व्यथिता साऽब्रवीदिदम् ।। ज्येष्ठोवाचनहि वासोऽनुरूपोऽयं वेदध्वनियुतो मम । न त्वागमिष्ये भो ब्रह्ममयस्वान्यत्र मां ध्रुवम् ॥ ९ उद्दालक उवाचकथं नाऽऽयासि किं चात्र वर्ततेऽसंमतं तव । तव योग्या च वसतिः का भवेच्च वदस्व तत्॥१० ज्येष्ठोवाचवेदध्वनिर्भवेद्यस्मिन्नतिथीनां च पूजनम् । यज्ञदानादिकं चापि नैव तत्र वसाम्यहम् ॥ ११ [*उत्तमो नीतिकुशलो धर्मयुक्तः प्रियंवदः । गुरुदेवार्चनं यत्र नैव तत्र वसाम्यहम् ॥ १२ परस्परानुरागेण दांपत्यं यत्र वर्तते । पितृदेवार्चनं यत्र नैव तत्र वसाम्यहम् ।। रात्रौ रात्रौ गृहे यस्मिन्दंपत्योः कलहो भवेत् । निराशा यान्त्यतिथयस्तस्मिन्स्थाने रतिर्मम] १४ दुरोदररता यत्र परद्रव्यापहारिणः । परदाररताश्चापि तत्र स्थाने रतिर्मम ॥ वृद्धसजनविप्राणां यत्र स्यादपमाननम् । निष्ठुरं भाषणं यत्र तत्र नित्यं वसाम्यहम् ॥ १६ ['गोवधो मद्यपानं च यत्र संजायतेऽनिशम् । ब्रह्महत्यादिपापानि तस्मिन्स्थाने रतिर्मम ॥१७ सूत उवाचइति तद्वचनं श्रुत्वा विषण्णवदनोऽभवत् । उद्दालकः पुनर्विष्णोर्वाक्यं स्मृत्वा नचोचिवान्॥१८ सोऽगच्छद्यत्र तत्रास्य पूजामालोक्य साऽब्रवीत् । नाऽऽयामीति तनः सोऽपि भ्रमादन्यातुरोऽभवत् उद्दालकस्ततो वाक्यं तामलक्ष्मीमुवाच ह ।। उद्दालक उवाचअश्वत्थवृक्षमूलेऽस्मिन्नलक्ष्मीः स्थीयतां क्षणम् । आवासस्थानमालोक्य यावद्यास्याम्यहं पुनः ।। सूत उवाचइति तां तत्र संस्थाप्य जगामोद्दालकस्तदा । प्रतीक्ष्यापि चिरं तत्र यदा तं न ददर्श सा ॥२१ तदा रुरोद करुणं भर्तृत्यागेन दुःखिता । तत्रास्या रुदितं लक्ष्मीर्वैकुण्ठभुवनेऽशृणोत् ॥ तदा विज्ञापयामास विष्णुमद्विग्नमानसा ॥ लक्ष्मीरुखाचस्वामिन्मद्भगिनी ज्येष्ठा भर्तृत्यागेन दुःखिता । तामाश्वासयितुं याहि कृपालो यद्यहं पिया २३ * धनुचिहान्तर्गतः पाठश्छ. भ. पुस्तकस्थः । + भयं श्लोको भ. पुस्तकस्थः ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy