________________
१४५३
१०३ व्यधिकशततमोऽध्यायः ] पद्मपुराणम् । व्यराजत नभः पूर्णमुल्काभिः संवृतं यथा । निहतै रथनागाश्वैः पत्तिभिर्भूय॑राजत ॥ १८ वज्राहताचलशिरःशकलैरिव संवृता । प्रमथाहतदैत्यौघैर्दैत्याहतगणैस्तथा ॥ वसामृङ्मांसपङ्काद्यैर्भूरंगम्याऽभवत्तदा । प्रमथाइतदैत्यौघान्भार्गवः समजीवयत् ॥ २० युद्धे पुनः पुनश्चैव मृतसंजीविनीबलात् । तं दृष्ट्वा व्याकुलीभूता गणाः सर्वे भयार्दिताः ॥ २१ शशंसुर्देवदेवाय तत्सर्व शुक्रचेष्टितम् । अथ रुद्रमुखात्कृत्या बभूवातीव भीषणा ॥ २२ तालजया दरीवक्त्रा स्तनपीडितभूरुहा । सा युद्धभूमिमासाद्य भक्षयन्ती महासुरान् ॥ २३ भार्गवं स्वभगे कृत्वा जगामान्तहिता नभः। विधृतं भार्गवं दृष्ट्वा दैत्यसेनां गणास्तदा ॥ २४ अम्लानवदना हान्निजनुयुद्धदुर्मदाः। अथाभज्यत दैत्यानां सेना गणभयार्दिता ॥ २५ वायुवेगहता यद्वत्प्रकीर्णा तृणसंहतिः। भग्नां गणभयात्सेनां दृष्ट्वाऽमर्षयुता ययुः ॥ २६ निशुम्भशुम्भसेनान्यो कालनेमिश्च वीर्यवान् । त्रयस्ते वारयामासुर्गणसेनां महाबलाः ॥ २७ मुञ्चन्तः शरवर्षाणि प्रादृषीव बलाहकाः । ततो दैत्यशरौघास्ते शलभानामिव व्रजाः ॥ २८ रुरुधुः खं दिशः सर्वा गणसेनामकम्पयन् । गणाः शरशतभिन्ना रुधिरासारवर्षिणः॥ २९ वसन्तकिंशुकाभासा न प्राज्ञायन्त किंचन । पतिताः पात्यमानाश्च च्छिन्नभिन्नास्तदा गणाः त्यक्त्वा सङ्ग्रामभूमि ते सर्वेऽपि विमुखाऽभवन् ॥
ततः प्रभिन्नं स्वबलं विलोक्य शैलादिलम्बोदरकार्तिकेयाः ।
त्वरान्विता दैत्यवरान्प्रसह्य निवारयामासुरमर्षणास्ते । इति श्रीमहापुराणे पाद्म उत्तरखण्हे कार्तिकमाहात्म्ये श्रीकृष्णसत्यभामासंवादे जलंधरोपाख्याने दैत्यसेनावधो
नाम व्यधिकशततमोऽध्यायः ॥ १०२ ॥ (१३) आदितः श्लोकानां समष्ट्यङ्काः-३६९३७
अथ व्यधिकशततमोऽध्यायः ।
नारद उवाचते गणाधिपतीन्दृष्ट्वा नन्दीभमुखषण्मुखान् । अमर्षादभ्यधावन्त द्वंद्वयुद्धाय दानवाः ॥ १ नन्दिनं कालनेमिस्तु शुम्भो लम्बोदरं तथा । निशुम्भः षण्मुखं वेगादभ्यधावत दंशितः॥ २ निशुम्भः कार्तिकेयस्य मयूरं पञ्चभिः शरैः । हृदि विव्याध वेगेन मूर्छितः स पपात ह ॥ ३ ततः शक्तिधरः शक्तिं यावज्जग्राह रोषितः । तावनिशुम्भो वेगेन स्वशक्त्या तमपातयत् ।। ४ ततो नन्दीश्वरो बाणैः कालनेमिमविध्यत । सप्तभिश्च हयान्केतुं त्रिभिः सारथिमच्छिनत् ॥ ५ कालनेमिस्तु संक्रुद्धो धनुश्चिच्छेद नन्दिनः । तदपास्य स शूलेन तं वक्षस्यहनदृढम् ॥ ६ स शूलभिन्नहृदयो हताश्वो हतसारथिः । अद्रेः शिखरमामुच्य शैलादि सोऽभ्यताडयत् ॥ ७ अथ शुम्भो गणेशश्च रथमूषकवाहनौ । युध्यमानौ शरवातैः परस्परमविध्यताम् ॥ गणेशस्तु तदा शुम्भं हृदि विव्याध पत्रिणा । सारथिं च त्रिभिर्बाणैः पातयामास भूतले ॥ ९
* संधिरार्षः ।
१च.क्त्रा स्वन'। २भ. 'नदुली । स । ३ ख. भ. मोऽप्यपातयत् ।