________________
१०१ एकाधिकशततमोऽध्यायः ] पद्मपुराणम् ।
१४५१ सौन्दर्याद्गहने भ्रामञ्शबरीरूपया पुरा । निष्कामः कामयुक्तोऽपि स्ववशोऽपि वशः कृतः॥ ११ यस्याः पुनः पुनः पश्यन्रूपं धाता विसर्जने । ससर्जाप्सरसस्तासां तत्समैकाऽपि नाभवत् १२ अतः स्त्रीरत्नसंभोक्तुः समृद्धिस्तस्य सा वरा । तथा न तव दैत्येन्द्र सर्वरत्नाधिपस्य च ॥१३ एवमुक्त्वा तमामन्त्र्य गते मयि स दैत्यराट् । तद्रूपश्रवणादासीदनङ्गज्वरपीडितः ॥ १४ अथ संप्रेषयामास स दूतं सिंहिकासुतम् । त्र्यम्बकाय तदा किंचिद्विष्णुमायाविमोहितः ॥ १५ कैलासमगमाहुः कुर्वन्शुक्लेन्दुवर्चसम् । कायेन कृष्णपक्षेन्दुवर्चसं स्वाङ्गजेन तु ॥ निवेदितस्तदेशाय नन्दिना स प्रवेशितः । त्र्यम्बकभूलतासंज्ञाप्रेरितो वाक्यमब्रवीत् ॥ १७
राहुरुवाचदेवपन्नगसेव्यस्य त्रैलोक्याधिपतेस्तथा । सर्वरत्नेश्वरस्य त्वमाज्ञां शृणु वृषध्वज ॥ १८ श्मशानवासिनो नित्यमंस्थिभारवहस्य च । दिगम्बरस्य ते भार्या कथं हैमवती शुभा ॥ १९ अहं रत्नाधिनाथोऽस्मि साऽपि स्त्रीरत्नसंज्ञिता । तस्मान्ममैव सा योग्या नैव भिक्षाशिनस्तव ।।
नारद उवाचवदत्येवं तदा राही भ्रमध्याच्ठूलपाणिनः। अभवत्पुरुषो रौद्रस्तीवाशनिसमस्वनः॥ २१ सिंहास्यः प्रचलजिह्वः सज्वालनयनो महान् । ऊर्ध्वकेशः शुक्लतनुसिंह इव चापरः॥ २२ स तं खादितुमायान्तं दृष्ट्वा राहुर्भयातुरः । अधावदतिवेगेन बहिः स च दधार तम् ॥ २३ [*स च राहुमहावाहुर्मेघगम्भीरया गिरा । उवाच देवदेवेशं पाहि मां शरणागतम् ॥ २४ ब्राह्मणं मां महादेव खादितुं समुपागतः । [+एतस्माद्रक्ष देवेश शरणागतवत्सल ॥ २५ रक्ष रक्ष महादेव त्वामहं शरणं गतः ] महादेवो वचः श्रुत्वा ब्राह्मणस्य तदाऽब्रवीत् ॥ २६ [*धृत्वा खादितुमारब्धस्तावद्रुद्रेण वारितः । नैवासौ वध्यतामेति दूतोऽयं परवान्यतः] ॥ २७ मुश्चेति पुरुपः श्रुत्वा राहुं तत्याज सोऽम्बरे । राहुं त्यक्त्वा स पुरुषो महादेवं व्यजिज्ञपत् २४
पुरुष उवाचक्षुधा मां बाधते स्वामिन्क्षुत्क्षामश्चास्मि सर्वथा । किं भक्ष्यं मे महादेव नदाज्ञापय मां प्रभो २९
ईश्वर उवाचभक्षयस्वाऽऽत्मनः शीघ्रं मांसं त्वं हस्तपादयोः ।
नारद उवाचस शिवेनैवमाज्ञप्तश्चखाद पुरुषः स्वयम् । हस्तपादोद्भवं मांसं शिरःशेषो यदाऽभवत् ॥ १ दृष्ट्वा शिरोवशेष तं सुप्रसन्नस्तदा शिवः । पुरुषं भीमकाणं तमुवाच सविस्मयः ।। ३२
ईश्वर उवाचत्वं कीर्तिमुखसंज्ञो हि भव मदारगः सदा । त्वदर्चा ये न कुर्वन्ति नैव ते पत्प्रियंकराः ॥३॥
नारद उवाचतदाप्रभृति देवेशद्वारे कीर्तिमुखः स्थितः । नार्चयन्तीह ये पूर्व तेषामर्चा वृथा भवेत् ॥ ३४ * राहुविमुक्तो यस्तेन सोऽपतद्भर्वरस्थले । अतः स बर्बरोद्भूत इति भर्मा प्रथां गतः ॥ ३५
* अयं श्लोकः ख. अ. पुस्तकस्थः । + अयं श्लोको अ. पुस्तकस्थः। * अयं श्लोको अ, पुस्तके नास्ति । १ ख. ञ, निन्यं मुण्डमालाव । २ छ. 'मस्थिमालाव' । ३ ख. च. न. भ. शुष्कत। ४ भ, दृष्ट्वा ।