SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ महामुनिश्रीव्यासपणीत-- [ ६ उत्तरखण्डेजलंधर उवाचयदि भोस्त्वं प्रतुष्टोऽसि वरमेतं ददस्त्र मे । मद्भगिन्या सह तया मबृहे सगणो वस ॥ २१ नारद उवाचतथेत्युक्त्वा स भगवान्सर्वदेवगणैः सह । जालंधरं नाम पुरमगमद्रमया सह ॥ जलंधरश्च देवानामधिकारेषु दानवान् । स्थापयित्वा सहर्ष स पुनरागान्महीतलम् ॥ २३ देवगन्धर्वसिद्धेषु यत्किंचिद्रत्नसंज्ञितम् । तदात्मवशगं कृत्वाऽतिष्ठत्सागरनन्दनः ॥ २४ पातालभुवने दैत्यं निशुम्भं स महाबलम् । स्थापयित्वा स शेषादीनानयद्भूतलं बली ॥ २५ देवगन्धर्वसिद्धौघान्सर्पराक्षसमानुषान् । स्वपुरे नागरान्कृत्वा शशास भुवनत्रयम् ॥ २६ एवं जालंधरः कृत्वा देवान्स्ववशवर्तिनः । धर्मेण पालयामास प्रजाः पुत्रानिवौरसान् ॥ २७ न कश्चिद्याधितो नैव दुःखितो न कृशस्तथा । न दीनो दृश्यते तस्मिन्धर्माद्राज्यं प्रशासति ॥२८ . एवं महीं शासति दानवेन्द्रे धर्मेण सम्यक्च यदृच्छयाऽहम् । कदाचिदागामथ तस्य लक्ष्मी विलोकितुं श्रीरमणं च सेवितुम् ॥ २९ इति श्रीमहापुराणे पाद्म उत्तरखण्डे कार्तिकमाहात्म्ये जलंधरोपाख्याने जलंधरस्य विष्णुवरप्राप्तिर्नाम शततमोऽध्यायः ॥ १०॥ (११) __ आदितः श्लोकानां समष्टयङ्काः-३६८७० अर्थकाधिकशततमोऽध्यायः । नारद उवाचसं मां संपूज्य विधिवदानवेन्दोऽतिभक्तितः । संग्रहस्य नदा वाक्यं जगाद नृपसत्तम ॥ १ । जलंधर उवाच - कुत आगम्यते ब्रह्मन्किचिदृष्टं त्वया कंचित् । यदर्थमिह चाऽऽयातस्तदाज्ञापय मां मुने ॥ २ । नारद उवाचगतः कैलासशिखरं देत्येन्द्राहं यदृच्छया । तत्रोमया सहाऽऽसीनं दृष्टवानस्मि शंकरम् ॥ ३ योजनायुतविस्तीर्णे कल्पद्रुममहावने । कामधेनुशताकीर्णे चिन्तामणिसुदीपिते ॥ तं दृष्ट्वा महदाश्चर्य वितों मेऽभवत्तदा । कापीदृशी भवेदृद्धिस्त्रिलोक्यां वा न वेति च ॥ ५ तावत्तवापि दैत्येन्द्र समृद्धिः संस्मृता मया । नद्विलोकनकामोऽहं त्वत्सांनिध्यमिहाऽऽगतः ॥६ त्वत्समृदिमिमां पश्यन्त्रीरत्नरहितां ध्रुवम् । कल्पयामि शिवादन्यस्त्रिलोक्यां न समृद्धिमान् ७ अप्सरोनागकन्याद्या यद्यपि त्वद्वशे स्थिताः । तथाऽपि ता न पार्वत्या रूपेण सदृशा ध्रुवम्॥८ [+यस्या लावण्यजलधौ निमग्नश्चतुराननः । स्वधैर्य मुमुचे पूर्व तया काऽन्योपमीयते ॥ ९ वीतरागोऽपि हि यया मदनारिः स्वलीलया। विश्वतन्त्रोऽपि हि यतः स्वात्मनो वशगः कृतः१० + इदमर्ध स्व. च. छ. . भ. पुस्तकस्थम् । १. च. भ. 'दि भावुक न। २ भ. सहाद्य त्वं म । ३ भ. 'वा महाबाहुः पु । ४ भ. "सिद्धाद्यान्म' । ५ ख. य. 'धान्यक्षग । ६ भ. कच दिक्षया । ७ भ. स मां प्रोवाच विधिवत्संपूज्य च तु भक्तिमान् । संप्रहस्य तदा वाक्य नंदपदं च वै नृप । । ८ भ. प्रभो। ९ भ. विस्मयो। १. भ. स्वार्य ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy