________________
१२४४ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेदौवारिको महेन्द्रेण प्रत्युक्तो दूतमानय । हस्ते गृहीत्वा तं दूत वासवान्तिकमानयत् ॥ ८ दुर्वारणो देवसभां प्रविष्टः प्रव्यलोकयत् । हरिं देवैस्त्रयस्त्रिंशत्कोटिभिः परिवेष्टितम् ॥ ९ स्वर्णसिंहासने दिव्यचामरानिलसेवितम् । शचीप्रेमरसोत्फुल्लनयनाब्जसहस्रकम् ॥ १० दुर्वारणोऽपि देवेशं विलोक्य गुरुगा सह । प्रणनामाऽऽत्मगर्वेण प्रहसन्नयनश्रियम् ॥ ११ निर्दिष्टमासनं भेजे दूतो जालंधरस्य सः। कस्य त्वं केन कार्येण प्राप्तः प्राहेति तं हरिः॥ १२ दूतो जालंधरस्याहं स जगाद पुरंदरम् । स राजा सर्वलोकानां तस्याऽऽज्ञां शृणु मन्मुखात १३ पितृव्यो मम दुग्धाब्धिस्त्वया कस्माद्विलोडितः । मन्दराद्रिविधानेन हृतः कोशो महाधनः॥१४ श्रीचन्द्रामृतनागांश्च तन्मणिं विद्रुमादिकम् । देहि सर्व तथा स्वर्ग शीघ्रं त्यज पुरंदर ॥ १५
किं केकीव शिखण्डमण्डिततनुः सारीव किं सुस्वरः ।
किं वा हन्त शकुन्तबालकपितुः कर्णामृतस्यन्दनः। किं वा हंस इवाङ्गनागतिगुरुः किं कीरवत्पाठकः काकः केन गुणेन काञ्चनमयेऽलंकारितः पञ्जरे ॥
१६ स त्वं मद्वचनातूर्ण कुरु सर्व यथोचितम् । तत्क्षमापय भूपाल(लं) यदि जीवितुमिच्छसि ॥१७
नारद उवाचअथ प्रहस्य मघवा प्राह दुर्वारणं प्रति ।।
इन्द्र उवाचशृणु दूत समासेन सिन्धोर्मथनकारणम् । पुरा हिमवतः सूनुमैनाको नाम मे रिपुः ॥ १९ स कुक्षौ विधुतस्तेन सागरेण जडेन च । दग्धं चराचरं येन वह्निना हयरूपिणा ॥ स चापि विधृतस्तेन सागरेण दुरात्मना । धर्मद्विषां दानवानामसौ वा आश्रयः प्रभुः॥ २१ नित्यं दधि घृतं क्षीरं दानवेभ्यः प्रयच्छति । अत एवायमस्माभिर्दुारण विलोडितः॥ २२ दण्डितश्च गतश्रीको देवैरथ पुरातनैः । शृणु दूत संबन्धेन मम विप्रेण शोषितः ॥ २३ कुम्भोद्भवेन किंचित्तं दुःसङ्गो नैव बाधते । सोऽपि युद्धार्थमस्माभिः सर्वसैन्येन संवृतः ॥ आगमिष्यति वै नाशं गमिष्यति तदैव हि ॥ नारद उवाच
इतीरयित्वा विरराम वृत्रहा सरित्पतेरात्मजदूतमुच्चकैः ।
शशंस चाऽऽगत्य समुद्रसूनोदेवेश्वरेणोक्तमशेषमादृतः ॥ इति श्रीमहापुराणे पाय उत्तरखण्डे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने पश्चमोऽध्यायः ॥ ५ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३१८९१
अथ षष्ठोऽध्यायः ।
नारद उवाचमहेन्द्रवचनं श्रुत्वा निजवृतमुखेन च । समुद्रसूनुः संक्रुद्धः सर्वसैन्यं समाह्वयत् । रसातलस्थिता दैत्या ये च भूतलवासिनः । आययुः सबलास्तत्र जालंधरमयाऽऽज्ञया ॥ २ । प्रयाणप्रक्रमे सिन्धुमनोः सैन्यस्य गर्जितैः । स्फुटन्ति नभसो राजन्पातालमखिला दिशः॥ ३