________________
५ पञ्चमोऽध्यायः ] पद्मपुराणम् ।
१२४३ ततो महाबला वीरा बलं क्षीरोदसंनिभम् । तस्य शुम्भासुर दैत्यं सेनापतिमकल्पयन् ॥ ४२ बलं स्ववशगं कृत्वा कृत्वा भुवि स्थिरं जलम् । जालंधरस्तदा राज्यं पितृदत्तं चकार सः॥४३ अत्रान्तरेऽप्सराः काचित्स्वर्णाख्याऽऽसीत्पुरा दिवि। तस्याः क्रौञ्चप्रसादेन वृन्दा नाम सुताऽभवत् धात्रा विभवसंयुक्तं सौन्दर्य यत्कृतं पृथक् । तत्तदेकगतं द्रष्टुं वृन्दागात्रं विनिर्मितम् ॥ ४५ तां वृन्दामतिचार्वङ्गी प्रमदाजनमोहिनीम् । स्वर्णा जालंधरस्यार्थे ददौ शुक्राय याचते ॥ ४६
शुक्र उवाचकंदर्पस्य जगन्नेत्रशस्त्रेणाऽऽश्चर्यकारिणा । रूपेणानेन रम्भोरु दीर्घायुः सुखिनी भव ॥ ४७
निर्माय स्वयमेव विस्मितमनाः सौन्दर्यसारेण तं ___ स्वव्यापारपरिश्रमस्य कलुषं वेधाः समारोपयत् । कंदर्प पुरुषं स्त्रियो विदधतो यस्मिन्नदृष्टे सति
द्रष्टव्यावधिरूपमामुहि पतिं तं दीर्घनेत्रं भटम् ॥ उपयेमे विवाहेन गान्धर्वेणार्णवात्मजः । वृन्दां तौ दंपती जातौ जनानन्दकरौ नृप ॥ ४९ चञ्चलत्वं परित्यक्तं तया जालंधरोऽपि हि । वृत्तेन वृद्धकार्येण चकमे न परस्त्रियम् ॥ ५० कदाचित्सममासीनो दृष्ट्वा राहुशिरो हृतम् । कस्मात्कायार्धशेषोऽयमिति पप्रच्छ भार्गवम् ५१ स तस्य कथयामास पूर्ववृत्तान्तमादितः । यथा निर्मथितो देवैः क्षीरोदोऽमृतकारणात् ॥ ५२ तच्छ्रत्वा विस्मितो वाक्यं प्राह जालंधरोऽसुरः। प्रसादमुमुखो राहुं कामरूपो भवाधुना।। ५३ इति शुक्रस्य मत्रेण सिन्धुसूनोः(नु:) प्रतापवान् । पितृव्यं संस्मरन्वीरो विग्रहं त्वकरोत्सरैः ५४ इति श्रीमहापुराणे पाद्म उत्तरखण्हे नारदयुधिष्ठिरसंवादे जालंधरोपाख्याने वृन्दाविवाह जालंधरा
भिषेको नाम चतुर्थोऽध्यायः ॥ ४ ।। आदितः श्लोकानां समष्ट्यङ्काः-३१८६६
१८
अथ पञ्चमोऽध्यायः ।
युधिष्ठिर उवाचकः पितृव्यः सिन्धुसूनोः किं वृत्तं तस्य विग्रहे । युयुधे स कथं दैत्यस्तन्मे कथय नारद ॥ १
नारद उवाचशृणु त्वं नृपशार्दूल पितृव्यः क्षीरसागरः । जालंधरस्य तं देवैः प्रमथ्य धनमाहृतम् ॥ श्रीचन्द्रामृतनागाश्च पूर्व तस्य सुरासुरैः। तच्छ्रुत्वा विग्रहं चक्रे देवैर्जालंधरोऽसुरः॥ कदाचित्पेषयामास दूतं दुर्वारणं वली । शिक्षयित्वा तु वक्तव्यं देवेन्द्रभवनं प्रति ॥ अथ स्यन्दनमारुह्य ययौ दुर्वारणो दिवि । प्रवेष्टुकामो भवनं द्वाःस्थैभरि निवारितः॥ ५
दूत उवाचजालंधरस्य दूतोऽहमागतः शक्रसंनिधौ । गत्वा तत्र भवन्तो मां विज्ञापयितुमर्हथ । ६
नारद उवाचइति तस्य वचः श्रुत्वा तदेव तु शचीपतिम् । गत्वा च प्रणिपत्याऽऽह दूतो देवाऽऽगतो भुवः७
११. महत् । २ ङ. श्रुतं ।