________________
८१ एकाशीतितमोऽध्यायः ] पद्मपुराणम् । ततः कदाचिद्भगवान्पुण्डरीकस्य धीमतः। आविरासीजगन्नाथः पुण्डरीकायतेक्षणः॥ १३४ शङ्खचक्रगदापाणिः पीतवासाः समुज्ज्वलः । पुण्डरीकविशालाक्षश्चन्द्रबिम्बनिभाननः॥ १३५ किङ्किणीकुण्डली हारी केयूरी कटिसूत्रवान् । श्रीवत्साङ्कः पीतवासाः कौस्तुभेन विभूषितः१३६ वनमालापरीताङ्गः स्फुरन्मकरकुण्डलः । स्फुरता ब्रह्मसूत्रेण मुक्तादाना विलम्बिना ॥ १३७ विराजमानो देवेशचामरव्यजनादिभिः । देवैः सिद्धैः सदेवेन्द्रर्गन्धर्वैर्मुनिभिर्वरैः॥ ११८ यसै गवरैश्चैव सेव्यमानोऽप्सरोगणैः । तं दृष्ट्वा देवदेवेशं पुण्डरीकोऽनघः स्वयम् ॥ १३९ ततो बुद्ध्वा महात्मानं तुष्टाव च जनार्दनम् । पाञ्जलिः प्रणतो भूत्वा प्रहृष्टेनान्तरात्मना १४०
पुण्डरीक उवाचनमोऽस्तु विष्णवे तुभ्यं सर्वलोकैकचक्षुषे । निरञ्जनाय नित्याय निर्गुणाय महात्मने ॥ १४१ त्वमीशः सर्वभूतानां तथैव च निरीश्वरः । तथा भयार्तिनाशाय गोविन्द गरुडध्वज ॥ १४२ अनुग्रहेण भूतानामनेकाधारधारिणे । त्वयि सर्वमिदं प्राहुस्त्वन्मयं चैव केवलम् ॥ १४३ त्वमस्माज्जगतोऽभिन्नो निर्मितं च जगत्त्वया । नमोऽस्तु नाभिप्रसवनलिनाय नमो नमः ॥१४४ नमः समस्तवेदान्तविश्रुतात्मविभूतये । त्वमेव सर्वदेवेशः कारणं कैटभार्दन ॥ १४५ प्रसीद हृदयावास शङ्खचक्रगदाधर । नमः समस्तभूतानामादिभूताय भंभृते ॥ १४६ अनेकरूपरूपाय विष्णवे प्रभविष्णवे । यस्य ब्रह्मादयो देवा न विदन्ति सुरेश्वराः॥ १४७ महिमानं तपोमेयं तस्मात्तुभ्यं नमाम्यहम् । वाचामगोचरो यस्य महिमा तव नाऽऽप्यते ॥ १४८ जात्यादिभिरसंस्पृष्टः सदा ध्येयोऽसि तत्त्वतः । तथा विभेदरूपेण भक्तानामनुकम्पया ॥ मत्स्यकूमोदिरूपेण दृश्यसे पुरुषोत्तम ॥
१४९ भीष्म उवाचपुण्डरीको जगन्नाथं स्तुत्वैवं पुरुषोत्तमम् । तमेवाऽऽलोकयद्वीरं चिरमार्थितदर्शनम् ॥ १५० तमाह भगवान्विष्णुः पद्मनाभस्त्रिविक्रमः । पुण्डरीकं महाभागं तथा गम्भीरया गिरा ॥ १५१
श्रीभगवानुवाचपीतोऽस्मि वत्स भद्रं ते पुण्डरीक महामते । वरं वृणीष्व दास्यामि यत्ते मनसि वर्तते ॥ १५२
भीष्म उवाचएतच्छ्रुत्वा तु वचनं देवदेवस्य भाषितम् । एवं विज्ञापयामास पुण्डरीको महामतिः ॥ १५३
पुण्डरीक उवाच - काहमत्यन्तदुर्बुद्धिः क भवन्तो हितैषिणः । यदितं मम देवेश तदाज्ञापय माधव ॥ १५४
भीष्म उवाचएवमुक्तः स भगवान्सुप्रीतश्च ततोऽब्रवीत् । पुण्डरीकं महाभागं कृताञ्जलिमुपस्थितम् ॥ १५५
भगवानुवाचआगच्छ कुशलं तेऽस्तु मयैव सह सुव्रत । उपकारी च नित्यात्मा मया त्वं सर्वदा सह ॥१५६
भीष्म उवाचएवमुक्तवति प्रीत्या श्रीधरे भक्तवत्सले । देवदुन्दुभयो नेदुः पुष्पवर्ष पपात ह ॥ १५७
१ ह. रैः । भक्तैनी । २ फ. भूतये । ३ ज. पमायाय । ४ फ. रीव नि'।