________________
२०७
१४२० महामुनिश्रीव्यासप्रणीत
[६ उत्तरखण्डेतस्मात्तमपि विप्रर्षे नारायणपरो भव । तदन्यः को महोदारः प्रार्थितं दातुमर्हति ॥ १०३ पितरं मातरं चैव तमेव पुरुषोत्तमम् । परिगृह्णीष्व लोकेशं देवदेवं जगत्पतिम् ॥ अग्निकार्ये ग भैक्ष्येग तपसाऽध्ययनेन वै । तोषयेदेवदेवेशं गुरुं नित्यमतन्द्रितः॥ १०५ स्वर्गेऽक्षयं तथा भोगमनुष्ठेयं तथैव च । परिगृहीष्य विप्रर्षे तमेव पुरुषोत्तमम् ॥ १०६ कि तैस्तु मात्रैर्बहुभिः किं तस्तु बहुभिर्वतैः । ॐ नमा नारायणायेति मन्त्रः सर्वार्थसाधकः १०७ चीरवासा जटी विप्रो दण्डी मुण्डी तथैव च । भूषितो वा द्विजश्रेष्ठ न लिङ्ग धर्मकारणम्॥१०८ ये नृशंसा दुरात्मानः पापाचारपराः सदा । तेऽपि यान्ति परं स्थानं नारायणपरायणाः॥१०९ लिप्यन्ते न च पापेन वैष्णवा वीतकिल्विषाः । पुनन्ति सकलं लोकमहिंसाजितमानसाः॥११० क्षत्रबन्धुरिति ख्यातो राजा प्राणिविहिंसकः । प्राप्तवान्परमं धाम वैष्णवं केशवाश्रयात् ॥ १११ अम्बरीषो महासत्त्व[+स्तमोऽप्यत्सुदारुणम् । तेनैव तपसाऽऽराध्य दृष्टवान्पुरुषोतमम् ॥११२ मित्रासनस्तथा राज्ञां] राजा परमतत्त्ववित् । हृषीकेशं समाराध्य वैष्णवं पदमाप्तवान् ॥ ११३ अन्ये ब्रह्मर्षयः शान्ता बहवः संशितव्रताः। ध्यात्वा च परमात्मानं संसिद्धिं परमां गताः११४ प्रहादः परमाहादः पुरा नारायणं हरिम् । सेविताऽभ्यर्चिता ध्याता तेनैव परिरक्षितः ॥११५ भरतो नाम तेजस्वी राजा परमधार्मिकः । उपास्यैनं चिरं कालं परां मुक्तिमवाप्तवान् ॥ ११६ ब्रह्मचारी गृहस्थो वा वानप्रस्थोऽथ भिक्षुकः । केशवाराधनं हित्वा नैव याति परां गतिम् ११७ जन्मान्तरसहस्त्रेषु यस्य स्यान्मतिरीदृशी । दासोऽहं विष्णुभक्तानामिति सर्वार्थसाधकः ॥ ११८ स याति विष्णुसालोक्यं पुरुषो नात्र संशयः । किं पुनस्तद्गतप्राणाः पुरुषाः संशितव्रताः ११९ अनन्यमनसा नित्यं ध्यातव्यस्तत्त्वचिन्तकैः । नारायणो जगद्यापी परमात्मा सनातनः ॥ १२०
भीष्म उवाचइत्येवमुक्त्वा देवर्षिस्तत्रैवान्तरधीयत । परोपकारनिरतो नारदः परमार्थवित् ॥ १२१ पुण्डरीकोऽपि धर्मात्मा नारायणपरायणः । ॐ नमो नारायणायेति मत्रमष्टाक्षरं जपन् ॥ १२२ । प्रसीद मम विश्वात्मन्निति वाचं वदन्सदा । हत्पुण्डरीके गोविन्दं प्रतिष्ठाप्यामृतात्मकम् ॥१२३ तपस्वी विमले सौम्ये शालग्रामे तपोधनः । उवास चिरमेकाकी निद्वो निष्परिग्रहः ॥ १२४ स्वमेऽपि केशवरान्नान्यत्पश्यतीति महामतिः । निद्राऽपि नैव तस्याऽऽसीत्पुरुषार्थविरोधिनी १२५ तपसा ब्रह्मचर्येण शोचेन च विशेषतः । जन्मजन्मान्तरारूहे संस्कारे च यथा तथा ॥ १२६ प्रसादाद्देवदेवस्य सर्वलोकस्य साक्षिणः । अवाप परमां सिद्धिं वैष्णवीं वीतकिल्बिषः ॥ १२७ शङ्खचक्रगदापाणिं पीतवाससमच्युतम् । श्यामलं पुण्डरीकाक्षं स ददर्श सदाकृतिम् ॥ १२८ सिंहव्याघ्रास्तथा चान्ये मृगपाणिविहिंसकाः। विरोधं सहजं हित्वा समेतास्तस्य संनिधौ १२९ विचरन्ति यथाकामं प्रसन्नेन्द्रियवृत्तयः । परस्परहितं रम्यं संप्राप्तं पाण्डुनन्दन ॥ १३० तथा प्रसन्नसलिला हृदाश्च सरितस्तथा । ऋतवः सुप्रसन्नाश्च विमलेन्द्रियसंयुताः॥ १३१ मारुताश्च सुखस्पर्शा वृक्षाः पुष्पफलान्विताः। आनुकल्यं ययुः सर्वे पदार्थास्तस्य धीमतः १३२ प्रपन्नमभवत्तस्मै प्रसन्नं सचराचरम् । प्रसन्ने देवदेवेशे गोविन्दे भक्तवत्सले ॥
+ धनुश्चिह्नान्तर्गतः पाठः फ. पुस्तकस्थः ।
१ ख. ज. झ. पापौघेः ।