________________
८१ एकाशीतितमोऽध्यायः ]
पद्मपुराणम् । तपःस्वाध्यायनिरतः साक्षाद्ब्रह्मसुतो यथा । उदकेन्धनपुष्पाद्यैरसकृत्पूजयन्गुरुम् ॥ मातापित्रोश्च शुश्रूषभिक्षाहारी विमत्सरः । ब्रह्मविद्यामधीयानः प्राणायामपरायणः ॥ २० तस्य सर्वात्मभूतस्य संसारे निस्पृहस्य च । महात्मनो बुद्धिरासीत्संसारार्णवतारिणी॥ २१. मातरं पितरं चैव भ्रातूनथ सुहजनान् । मित्राणि मातुलांश्चैव सखिसंबन्धिबान्धवान् ॥ २२ धनधान्यसमृद्धं च गृहं वंशक्रमागतम् । क्षेत्राणि सुमहार्हाणि सर्वसस्योद्भवानि च ॥ २३ परित्यज्य महासत्त्वस्तृष्णां चैव महासुखी । विचचार महीं पद्भयां शाकमूलफलाशनः ॥ २४. [* अनित्यं यौवनं रूपमायुष्यं द्रव्यसंचयः । इति संचिन्तयानस्तु त्रैलोक्यवक्रतां तथा ॥ २५. पुराणोदितमार्गेण सर्वतीर्थानि पाण्डव । आगमत्स यथाकाममिति निश्चितमानसः ॥ २६ गङ्गां च यमुनां चैव गोमतीमथ गल्लिकाम् । शतदूं च पयोष्णीं च सरयूं च सरस्वतीम् ॥ २७ प्रयागं नर्मदां चैव शोणं चैव महानदम् । प्रभासं विन्ध्यतीर्थानि हिमवत्प्रभवानि च ॥ २८ आश्रमेषु च यानि स्युनैमिषे पुष्करादिषु । कुरुक्षेत्रे च यानि स्युस्तथा गोवर्धनादिषु ॥ २९ अन्यानि सुमहातेजास्तीर्थानि सुसमाहितः। विचचार महायोगी यथाकाले यथाविधि ॥ ३० कदाचित्माप्तवान्धीरः शालग्रामं तपोधनः । पुण्डरीको महाभागः पूर्वकर्मवशानुगः ॥ ३१ आसेव्यमानो(नं) मुनिभिस्तत्त्वविद्भिस्तपोधनः । मुनीनामास्पदं रम्यं पुराणेष्वपि विश्रुतम् ३२ भूषितं चैव चक्राद्यैश्वक्राङ्कितशिलातलम् । रम्यं विविक्तविस्तीर्ण सदाविष्णुप्रसादकम् ॥ ३३ केचिच्चकाङ्कितास्तत्र प्राणिनः पुण्यदर्शनाः । विचरन्ति यथाकामं पुण्यतीर्थप्रदर्शनात् ॥ ३४ तस्मिन्क्षेत्रे महापुण्ये शालग्रामे महामतिः । स्नात्वा देवहदे तीर्थे सरस्वत्यां च सुव्रतः ॥ ३५ जातिस्मर्या चक्रकुण्डे चक्रनद्याश्रितेषु च । तथाऽन्यान्यपि तीर्थानि तस्मिन्नेव चचार सः ३६ तत्र क्षेत्रप्रभावन तीर्थानां चैव तेजसा । मनः प्रसादमभजत्तस्मिन्नेव महात्मनः ॥ ३७ सोऽपि तीर्थविशुद्धात्मा पुण्डरीकस्तपोधनः । तत्रैव वसतिं चक्रे ध्यानयोगपरायणः॥ ३८ तत्रैव सिद्धिमाकाङ्क्षन्नाराध्य गरुडध्वजम् । शास्त्रोक्तेन विधानेन भक्त्या परमया पुनः॥ ३९ उवास चिरमेकाकी निद्वः स जितेन्द्रियः । शाकमूलफलाहारः संतुष्टः समदर्शनः ॥ ४० यमैश्च नियमैश्चैव तथैवाऽऽसनबन्धनैः । प्राणायामैश्च तीर्थश्च प्रत्याहारैश्च संततैः ॥ ४१ धारणाभिस्तथा ध्यानैः समाधिभिरतन्द्रितः । योगाभ्यासं सदा सम्यक्चक्रे विगतकिल्बिषः॥ वैदिकैस्तात्रिकैश्चैव तथा पौराणिकैरपि । आराधयति सर्वेशं ततः शुद्धिमवाप सः ॥ रागद्वेषविनिर्मुक्तः स्वधर्म इव रूपवान् । आराधयामास देवं तद्गतेनान्तरात्मना ॥ ४४ तुतोष भगवान्विष्णुः पुण्डरीकायतेक्षणः । जगाद भगवान्राजन्प्रसन्नस्तस्य धीमतः ॥ ४५ ततः कदाचित्तं देशं नारदः परमार्थवित । जगाम स महातेजाः साक्षादादित्यसंनिभः ॥ ४६ सं द्रष्टुकामो भगवान्पुण्डरीकं तपोनिधिम् । विष्णुभक्तिपरीतात्मा वैष्णवानां हिते रतः ॥ ४७ स दृष्ट्वा नारदं प्राप्तं तेजोमण्डलमण्डितम् । महामति महोदारं सर्ववेदैकभाजनम् ॥ ४८ पाञ्जलिः प्रणतो भूत्वा प्रहृष्टेनान्तरात्मना । अर्घ दत्त्वा विधानेन प्रणाममकरोत्पुनः॥ ४९ कोऽयमत्यद्भुताकारस्तेजस्वी हृद्यवेषधृक् । आतोद्यहस्तः मुमुखो जयमण्डलमण्डितः॥ ५०
* धनुश्चिहान्तर्गतः पाठः फ. पुस्तकस्थः । १ झ. ब्राह्मणाः । २ ङ, ब, कैथाऽऽह्निक' । ३ फ. मो देवर्षिः पु ।