________________
४४
७८ अष्टसप्ततितमोऽध्यायः ] पद्मपुराणम् । यथोक्तं च कृतं श्राद्धं द्विनाश्चैवापि भोजिताः । कुटुम्बानां तु सर्वेषा भोजनं कारितं तथा॥३३ भोजनानन्तरं प्राप्ता शुनी तत्र उवाच ह । अस्माकं तु गृहे ह्येको बलीवर्दस्तु वर्तते ॥ ३४ तं पतिं सा उवाचेदं यज्जातं च शृणुष्व तत् । गृहे स्थितं दुग्धभाण्डमहिना दूषितं मया ॥ ३५ दृष्टं मे महती चिन्ता तदा जाता न संशयः। अनेन पयसा चैव पक्कमन्नं यदा भवेत् ॥ ३६ तदाऽत्र सर्वे विप्राश्च म्रियन्ते भोजनात्ततः। एवं विचार्य भोः स्वामिन्दुग्धं पीतं तदा मया ३७ तदा दृष्टं तु वध्वा वे तया मे ताडनं कृतम् । चरामि तेन संभग्ना किं करोमि सुदुःखिता ॥३८ तस्या दुःखं तु संस्मृत्य वृषः प्राह शुनी प्रति । शृणु शुनि प्रवक्ष्यामि मम दुःखस्य कारणम् ३९ अस्याहं तु पिता साक्षात्पूर्वजन्मनि वै शुनि । अद्य वै भोजिता विमा दत्तमन्नं तु भूरिशः ॥४० न तृणं नोदकं चैव ममाग्रे संनिवेदितम् । तेन दुःखेन मे दुःखं जातं बहुतरं तदा ॥ ४१ एतत्कथानकं श्रुत्वा रात्रौ निद्रामवाप न । मम चिन्ता तु तत्रैव जाता वै ऋषिसत्तम ।। ४२ वेदाध्ययनशीलोऽहं कुशलो वेदकर्मणि । अनयोश्च महड्डुःखं किं करोमीति चिन्तयन् ॥ ४३ आगतस्त्वत्समीपे तु मम कष्टं निवारय ।
ऋषिरुवाचअग्रजन्मशृणुष्व त्वं पूर्वजन्मनि यत्कृतम् । अयं वै तु द्विजः श्रेष्ठः कुण्डिने नगरे शुभे ॥ ४५ मासे भाद्रपदे चैव पञ्चमी या समागता । तद्वतं तेन न ज्ञातं पितुः श्राद्धादिकारणात् ।। ४६ स्त्रीधर्मेण तु संप्राप्ता क्षयाहे तु तदाऽनघ । तया चैव कृतं सर्व ब्राह्मणानां च भोजनम् ॥ ४७ न ज्ञातं च व्रतं तेन पापिष्ठेन दुरात्मना । प्रथमेऽहनि चाण्डाली द्वितीये ब्रह्मघातिनी॥ ४८ तृतीये रजकी प्रोक्ता चतुर्थेऽहनि शुध्यति । तेन पापेन सा जाता शुनी स्वगृहचारिणी ।। बलीवर्दस्त्वयं जातः कर्मणाऽनेन सुव्रत ।
अग्रजन्मोवाचव्रतं दानं तथा यज्ञास्तीर्थ वा मम सुत्रत । बहि येन विशेषेण मुक्तिः पित्रोर्भवेन्मम ।। ५०
ऋषिरुवाचमासे भाद्रपदे शक्ले जायते ऋषिपञ्चमी । रजसादिकृतं पापं नश्यते करणाद्यतः॥ ५१ पुत्रपौत्रपदात्री च पितृणां मुक्तिदायिनी । नयां कूपे तडागे वा ब्राह्मणस्य गृहे तथा ॥ ५२ गोमयं (?) मण्डलं कुर्यात्कुम्भं तत्रैव स्थापयेत् । तत्रोपरि न्यसेत्पात्रमृषिधान्येन पूरयेत् ॥ ५३ यज्ञोपवीतसूत्रं च सहिरण्यफलं तथा । स्थाप्यास्तत्रर्षयः सप्त सुखौभाग्यदायकाः॥ ५४ आवाहयित्वा तान्सर्वान्पूजनीया व्रतस्थितैः । नैवेद्यमृषिधान्यं च ऋषिधान्यं तु भोजनम् ॥५५ एकमुक्तेन कर्तव्यमृषीणामर्चनं तदा । पूजयेत्परया भक्त्या मत्रेण विधिपूर्वकम् ॥ ५६ निवोपं सघृतं देयं दक्षिणासंयुतं तदा । देयं विप्राय विधिवदृषीणां प्रीयतामिति ॥ ५७ कथा श्रुत्वा विधानेन कृत्वा चैव प्रदक्षिणाम् । धूपं दीपं च नैवेद्यमयं दद्यात्पृथक्पृथक् ॥ ५८ ऋषयः सन्तु मे नित्यं व्रतसंपूर्ण(ति)कारिणः । पूजां गृह्णन्तु महत्तामृषिभ्योऽस्तु नमो नमः ५९ पुलस्त्यः पुलहश्चैव ऋतुः प्राचेतसस्तथा । वसिष्ठमारिचाया अर्घ गृह्णन्तु वो नमः॥ ६० एवं पूजा प्रकर्तव्या धूपदीपैर्मनोरमैः । पित गां जायते मुक्तिः कृतस्यास्य प्रभावतः ॥ ६१
१ ख. ज. झ. तथा । २ इ. 'टो मुनिराजे ।