________________
१४०४ महामुनिश्रीव्यासप्रणीतं
[६ उत्तरखण्डेतामृते नैव धर्मोऽर्थः कामो मोक्षोऽपि दूरतः । क्षुधितानां दुर्गतानां कुतो योगसमाधयः ॥३२८ । स च संसारसारैकः सर्वलोकैकनायकः । वशगा कमला यस्य त्यक्त्वा त्वामपि शंकर ॥ ३२९ अनौद्धत्येन शौर्येण रूपेणाऽऽर्जवसंपदा । सर्वातिशायिवीर्येण संपूर्णस्य महात्मनः॥ ३३० कस्तेन तुल्यतामेति देवदेवेन विष्णुना । यस्यांशांशावतारेण विना सर्व विलीयते ॥ ३३१ जगदतत्तथाऽप्याहुर्दोषायैतद्विमोहिताः । नास्य जन्म न वा मृत्यु प्राप्यं स्वार्थमेव च ॥ ३३२ कामाद्यासक्तचित्तत्वात्किंतु सर्वेश्वर प्रभो । त्वन्मयत्वात्प्रमादाद्वा शक्नोमि पठितुं न चेत् ३३३ विष्णोः सहस्रनामैतत्प्रत्यहं वृषभध्वज । नाम्नैकेन तु येन स्यात्तत्फलं ब्रूहि मे प्रभो॥ ३३४
महादेव उवाचराम रामेति रामेऽतिरमे रामे मनोरमे । सहस्रनाम तत्तुल्यं रामनाम वरानने ॥ ३३५ इति श्रीमहापुरागे पान उत्तरखण्डे पार्वतीमहादेवसंवादे विष्णोर्नामसहस्रकं नाम द्विसपतितमोऽध्यायः ॥ ७२ ॥
आदितः श्लोकानां समष्टयङ्काः-३५७७३
अथ त्रिसप्ततितमोऽध्यायः ।
महादेव उवाचब्राह्मणा वा क्षत्रिया वा वैश्या वा गिरिकन्यके । शद्रा वाऽथ विशेषेण पठन्त्यनुदिनं यदि ॥१ धनधान्यसमायुता यान्ति विष्णोः परं पदम् । श्लोकं वा श्लोकमर्ध वा पादं पादार्धमेव च॥२ पउनान्मोक्षमाप्नोति यावदाभूत संप्लवम् । विन्यासेन युतं देवि विष्णोर्नामसहस्रकम् ॥ ३ ये पठन्ति नरश्रेष्ठास्ते यान्ति पदमव्ययम् । एककालं द्विकालं वा त्रिकालं वाऽथ यः पठेत्।। ४ ! धनायर्वते तस्य यावदिन्द्राश्चतुर्दश । पुत्रान्गोत्रांस्तथा लक्ष्मी संपई विपलां लभेत ॥ ५ किमन्यद्बहुनोक्तेन भूयो भूयो वरानने । विष्णोर्नामसहस्रं तु परं निर्वाणदायकम् ॥ ६ [*लिखित्वा पुस्तिका येन स्थापिता देवसद्मनि । पूजिता स्वापदादेवी पुत्रपौत्रार्थदायका॥७ पूजनं प्रथमं तस्या कृतं येन नरेण तु । संपूर्णः पूजितो विष्णुर्भवेत्पूजा च वार्षिकी ॥ ८ व्यग्रत्वं च न कर्तव्यं पठने तु विशेषतः । यदि चेत्क्रियते पाठे ह्यायुवित्तं च नश्यति ॥ ९ यावन्ति भुवि तीर्थानि जम्बूद्वीपेषु सर्वदा । तानि तीर्थानि तत्रैव विष्णोर्नामसहस्रकम् ॥ १०
तत्रैव गङ्गा यमुना च वेणी गोदावरी तत्र सरस्वती च ॥
सर्वाणि तीर्थानि वसन्ति तत्र यत्र स्थितं नामसहस्रकं तत् ॥ इदं पवित्रं परमं भक्तानां वल्लभं सदा । ध्येयं हि दास्यभावेन भाक्तिभावेन चेतसा ॥ १२ परं सहस्रनामाख्यं ये पठन्ति मनीषिणः। सर्वपापविनिमुक्तास्ते यान्ति हरिसंनिधौ ॥ १३ अरुणोदयकाले तु ये पठन्ति जपन्ति च । आयुर्वलं च तेषां श्रीवर्धते च दिने दिने ॥ १४ रात्री जागरणे प्राप्ते कलौ भागवतो नरः । पठनान्मुक्तिमामोति यावदिन्द्राश्चतुर्दश ॥ १५ एकैकेन तु नाम्ना वै हरौ तुलसिकार्पणात् । पूजा सा चैव विज्ञेया कोटियज्ञफलाधिका ॥ १६ मार्गे वा गच्छमानास्तु ये पठन्ति द्विजातयः। न दोषा मार्गजास्तेषां भवन्ति किल पार्वति।।१७
* अयं श्लोकः फ. पुस्तकस्थः ।