________________
७२ द्विसप्ततितमोऽध्यायः ] पद्मपुराणम् ।
१४०३ कामक्रोधादिनिःशेषमनोमलविशोधनम् । शान्तिदं पावनं नृणां महापातकिनामपि ॥ ३०० सर्वेषां प्राणिनामाशु सर्वाभीष्टफलप्रदम् । समस्तविघ्नशमनं सर्वारिष्टविनाशनम् ॥ ३०१ घोरदुःखप्रशमनं तीवदारिद्यनाशनम् । ऋगत्रयापहं गुह्यं धनधान्ययशस्करम् ।। ३०२ सर्वेश्वर्यपदं सर्वसिद्धिदं सर्वधर्मदम् । तीर्थयज्ञतपोदानव्रतकोटिफलप्रदम् ॥ जगजाड्यप्रशमनं सर्वविद्यापवर्तकम् । राज्यदं भ्रष्टराज्यानां रोगिणां सर्वरोगहत् ॥ ३०४ वन्थ्यानां सुतदं चाऽऽशु क्षीणानां जीवितप्रदम् । भूतम्रहविषध्वंसि ग्रहपीडाविनाशनम् ॥३०५ माङ्गल्यं पुण्यमायुष्यं श्रवणात्पठनाजपात् । सकृदस्याखिला वेदाः साङ्गा मन्त्राश्च कोटिशः३०६ पुराणशास्त्रस्मृतयः श्रुताः स्युः पठितास्तथा । जप्त्वाऽस्यैकाक्षरं श्लोकं पादं वा पठति प्रिये ।। नित्यं सिध्यति सर्वेष्टमचिराकिमुताखिलम् । नानेन सदृशं सद्यःप्रत्ययं सर्वकर्मसु ॥ ३०४ इदं भद्रे त्वया गोप्यं पाठ्यं स्वार्थैकसिद्धये । नावैष्णवाय दातव्यं विकल्पापहतात्मने ॥ ३०९ भक्तिश्रद्धाविहीनाय विष्णुसामान्यदर्शिने । देयं पुत्राय शिष्याय सुहृदे हितकाम्यया ॥ ३१० मत्प्रसादादतो नेदं ग्रहीष्यन्त्यल्पमेधसः । कलौ सद्यःफलं कल्पग्रामं नेष्यति नारदः ॥ ३११ लोकानां भाग्यहीनानां येन दुःखं विनश्यति । द्वित्रेषु वैष्णवेष्वेतदार्यावर्ते भविष्यति ॥ ३१२ नास्ति विष्णोः परं धाम नास्ति विष्णोः परं तपः । नास्ति विष्णोः परो धर्षं नास्ति मन्त्री ह्यवैष्णवः॥ [*नास्ति विष्णोः परं सत्यं नास्ति विष्णोः परो जपः । नास्ति विष्णोः परं ध्यानं नास्ति विष्णोः परा गतिः ॥ किं तस्य बहुभिर्मः शास्त्रैः किं बहुविस्तरैः । वाजपेयसहस्रैर्वा भक्तिर्यस्य जनार्दने ॥ ३१५ सर्वतीर्थमयो विष्णुः सर्वशास्त्रमयः प्रभुः । सर्वक्रतुमयो विष्णुः सत्यं सत्यं वदाम्यहम् ॥ आब्रह्मसारसर्वस्वं सर्वमेतन्मयोदितम् ॥
पार्वत्युवाचधन्याऽस्म्यनुगृहीताऽस्मि कृतार्थाऽस्मि जगत्पते । यन्मयेदं श्रुतं स्तोत्रं त्वद्रहस्यं सुदुर्लभम् ३१७ अहो बत महत्कष्ट समस्तसुखदे हरौ । विद्यमानेऽपि देवेश महाः क्लिश्यन्ति संमतौ ॥ ३१८ यमुदिश्य सदा नाथो महेशोऽपि दिगम्बरः। जटिलो भस्मलिप्ताङ्गो तपस्वी वीक्ष्यते जनैः ३१९ ततोऽधिकोऽस्ति को देवो लक्ष्मीकान्तान्मधुद्विषः। यत्तत्त्वं चिन्त्यते नित्यं त्वया योगेश्वरण हि।। ततः परं किमधिकं पदं श्रीपुरुषोत्तमात् । तमविज्ञाय के मूढा यजन्ते ज्ञानमानिनः ॥ ३२१ मुषिताऽस्मि त्वया नाथ चिरं यदयमीश्वरः। प्रकाशितो न मे यस्मात्त्वदाद्या दिव्यशक्तयः३२२ अहो सर्वेश्वरो विष्णुः सर्वदेवोत्तमोत्तमः । भवदादिगुरुर्मुहैः सामान्य इव वीक्ष्यते ॥ ३२३ महीयसां हि माहात्म्यं भजमानान्भनन्ति ते । द्विषतोऽपि वृथा पापानापेक्षन्ते क्षमान्विताः ३२४ मयाऽपि बाल्ये स्वपितुः प्रजा दृष्टा बुभुक्षिता। दुःखादशक्ता संपोष्टुं श्रियमाराध्य वै भृता ३२५ तया संनिहिताभ्यश्च प्रजाभ्यो भवदादयः। विलसन्ति सशक्राद्याः समुहन्मित्रवान्धवाः ३२६ तया विना क देवत्वं कैश्वर्य क परिग्रहः । सर्वे भवन्ति जीवन्तो यातनास्विव संस्थिताः ३२७
* अयं श्लोकः क. सच. ज. झ. अ. पुस्तकस्थः ।
१ क. स. च. ज. झ. अ. फ. भजन्ते ।