SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १४०२ महामुनिश्रीव्यासप्रणीतं [६ उत्तरखण्डेस्वधाममुचुकुन्दैकनिष्कालयवनेष्टकृत् । यमुनापतिरानीतपरिलीनद्विजात्मजः ॥ २६८ श्रीदामरङ्कभक्तार्थभूम्यानीतैन्द्रवैभवः । दुर्वृत्तशिशुपालैकमुक्तिदो द्वारकेश्वरः॥ २६९ आचाण्डालादिकपाप्यद्वारकानिधिकोटिकृत् । अरोद्धवमुख्यैकभक्तः स्वच्छन्दमुक्तिदः॥२७० सवालस्त्रीजलक्रीडामृतवापीकृतार्णवः । ब्रह्मास्त्रदग्धगर्भस्थपरीक्षिजीवनककृत् ॥ २७१ परिलीनद्विजसुतानेताऽर्जुनमदापहः । गूढमुद्राकृतिग्रस्तभीप्माद्यखिलकौरवः ॥ २७२ यथा(पार्था)र्थखण्डिताशेषदिव्यास्त्रपार्थमोहहृत् । गर्भशापच्छलध्वस्तयादवोभिरापहः ॥ २७३ जराव्याधारिगतिदः स्मृतमात्राखिलेष्टदः । कामदेवो रतिपतिर्मन्मथः शम्बरान्तकः॥ २७४ अनङ्गो जितगौरीशो रतिकान्तः सदेप्सितः । पुष्पेषुर्विश्वविजयी स्मरः कामेश्वरीप्रियः ॥२७५ उषापतिर्विश्वकेतुर्विश्वतृप्तोऽधिपूरुषः । चतुरात्मा चतुर्ग्रहश्चतुर्युगविधायकः ॥ २७६ चतुर्वेदैकविश्वात्मा सर्वोत्कृष्टांशकोटिमः । आश्रमात्मा पुराणापासः शाखासहस्रकृत् २७७ महाभारतनिर्माता कवीन्द्रो बादरायणः। कृष्णद्वैपायनः सर्वपुरुषार्थकबोधकः ॥ २७८ वेदान्तकर्ता ब्रह्मैकव्यञ्जकः पुरुवंशकृत् । बुद्धो ध्यानजिताशेषदेवदेवीजगत्प्रियः ॥ २७९ निरायुधो जगजैत्रः श्रीधनो दुष्टमोहनः । दैत्यवेदवहिष्कर्ता वेदार्थश्रुतिगोपकः ॥ २८० शौद्धोदनिदृष्टदिष्टः सुखदः सदसस्पतिः। यथायोग्याखिलकृपः सर्वशून्योऽखिलेष्टदः ॥ २८१ चतुष्कोटिपृथक्तत्त्वप्रज्ञापारमितेश्वरः। पाखण्डवेदमार्गेशः पाखण्डश्रुतिगोपकः॥ २८२ कल्की विष्णुयशःपुत्रः कलिकालविलोपकः । समस्तम्लेच्छदुष्टनः सर्वशिष्टद्विजातिकृत् ॥ २८३ सत्यप्रवर्तको देवद्विजदीर्घक्षुधापहः । अश्ववाराादरेवन्तः पृथ्वीदुर्गतिनाशनः ॥ २८४ सद्यःक्ष्मानन्तलक्ष्मीकृन्नष्टनिःशेपधर्मवित् । अनन्तस्वर्णयागैकहेमपूर्णाखिलद्विजः ॥ २८५ असाध्यैकजगच्छास्ता विश्ववन्धो जयध्वजः । आत्मतत्त्वाधिपः कर्तृश्रेष्ठो विधिरुमापतिः २८६ भर्तृ श्रेष्ठ:९०० प्रजेशाग्र्यो मरीचिर्जनकाग्रणीः। कश्यपो देवराडिन्द्रः प्रह्लादो दैत्यराट्शशी । नक्षत्रेशो रविस्तेजःश्रेष्ठः शुक्रः कवीश्वरः। महर्षिराभृगर्विष्णुरादित्येशो बलिस्वराट् ॥ २८८ पायुवतिः शुचिश्रेष्ठः शंकरो रुद्रराद्गुरुः । विद्वत्तमश्चित्ररथो गन्धर्वाग्योऽक्षरोत्तमः॥ २८९ वर्गादिरग्र्यस्त्री गौरी शक्त्यग्या श्रीश्च नारदः। देवर्षिराटपाण्डवायोऽर्जुनो वादः प्रवादराद॥ पावनः पावनेशानो वरुणो यादसांपतिः । गङ्गा तीर्थोत्तमो द्यूतं छलकाऽयं वरौपधम् ॥ २९१ अन्नं सुदर्शनोऽस्राय्यं वनं प्रहरणोत्तमम् । उच्चैश्रवा वाजिराज ऐरावत इभेश्वरः॥ २९२ अरुन्धत्येकपत्नीशो ह्यश्वत्थोऽशेषवृक्षराद । अध्यात्मविद्या विद्यायः प्रणवश्छन्दसां वरः२९३ मेरुगिरिपतिर्मार्गो मासाय्यः कालसत्तमः । दिनाद्यात्मा पूर्वसिद्धः कपिलः साम वेदराद २९४ तायः खगेन्द्र ऋत्वग्र्यो वसन्तः कल्पपादपः । दातृश्रेष्ठः कामधेनुरार्तिनाग्र्यः सुहृत्तमः २९५ चिन्तामणिगुरुश्रेष्ठो माना हिततमः पिता । सिंहो मृगेन्द्रो नागेन्द्रो वासुकिनूवरो नृपः ॥२९६ वर्णेशो ब्राह्मणश्चेतः करणाय्यं १०००नमो नमः । इत्येतद्वासुदेवस्य विष्णोर्नामसहस्रकम् २९७ सर्वापराधशमनं परं भाक्तिविवर्धनम् । अक्षयं ब्रह्मलोकादिसर्वस्वगैकसाधनम् ॥ २९८ विष्णुलोकैकसोपानं सर्वदुःखविनाशनम् । समस्तसुखदं सद्यः परं निर्वाणदायकम् ॥ २९९ १ झ. 'श्वदीप्तो । म. श्वप्नों । २ झ. श्रीधगे। ३ फ. तिमागरः । शौं । ४ झ. अ. वन्तप। ५ फ. मधृक् ! । ६ म.न, श्रेटो बजे।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy