________________
???
१२३
७२ द्विसप्ततितमोऽध्यायः ]
पद्मपुराणम् । अस्य श्रीविष्णोर्नामसहस्रस्तोत्रस्य श्रीमहादेव ऋषिः । अनुष्टुप्छन्दः।परमात्मा देवता।हीं बीजम् । श्री शक्तिः। क्लीं कीलकम् । चतुर्वर्गधर्मार्थकाममोक्षार्थे जपे विनियोगः॥
११४ ___ ॐ वासुदेवाय विद्महे । महाहंसाय धीमहि । तन्नो विष्णुः प्रचोदयात् ॥ ११५
अङ्गन्यासकरन्यासविधिपूर्व यदा पठेत् । तत्फलं कोटिगुणितं भवत्येव न संशयः ॥ ११६ __ श्रीवासुदेवः परं ब्रह्मेति हृदयम्। मूलप्रकृतिरिति शिरः।महावराह इति शिखा । सूर्यवंशध्वज इति कवचम् । ब्रह्मादिकाम्यलालित्यजगदाश्चर्यशैशव इति नेत्रम् । पार्थार्थखण्डिताशेष इत्यस्त्रम् । नमो नारायणायेति न्यासं सर्वत्र कारयेत् ॥ ॐ नमो नारायणाय पुरुषाय महात्मने । विशुद्धशुद्धसत्त्वाय महाहंसाय धीमहि । तन्नो देवः प्रचोदयात् ॥ क्लीं कृष्णाय विष्णवे (महे)। ह्रीं रामाय धीमहि । तन्नो देवः प्रचोदयात् ॥ शं नृसिंहाय विद्महे श्रीकण्ठाय धीमहि । तन्नो विष्णुः प्रचोदयात् ।।
१२० ॐ वासुदेवाय विद्महे । देवकीसुताय धीमहि । तन्नः कृष्णः प्रचोदयात् ॥ ॐ ह्रां ह्रीं हूं हैं ह्रौं हः क्लीं कृष्णाय गोविन्दाय गोपीजनवल्लभाय नमः स्वाहा ॥ १२२ इति मन्त्रं समुच्चार्य यजेता विष्णुमव्ययम् । श्रीनिवासं जगन्नाथं ततः स्तोत्रं पठेत्सुधीः॥
ॐ वासुदेवः परं ब्रह्म परमात्मा परात्परः॥ परं धाम परं ज्योतिः परं तत्त्वं परं पदम् । परः शिवः परो ध्येयः परं ज्ञानं परा गतिः १२४ परमार्थः परश्रेष्ठः परानन्दः परोदयः । परोऽव्यक्तात्परं व्योम परमर्दिः परेश्वरः॥ १२५ निरामयो निर्विकारो निर्विकल्पो निराश्रयः । निरञ्जनो निरालम्बो निर्लेपो निरवग्रहः॥१२६ निर्गुणो निष्कलोऽनन्तोऽभयोऽचिन्त्योऽचलोऽश्चितः । अतीन्द्रियोऽमितोऽपारो नित्योऽनीहोऽव्ययोऽक्षयः ॥
१२७ सर्वज्ञः सर्वगः सर्वः सर्वदः सर्वभावनः । सर्वशास्ता सर्वसाक्षी पूज्यः सर्वस्य सर्वदृक् ॥ १२८ सर्वशक्तिः सर्वसारः सर्वात्मा सर्वतोमुखः । सर्ववासः सर्वरूपः सर्वादिः सर्वदुःखहा ॥ १२९ सर्वार्थः सर्वतोभद्रः सर्वकारणकारणम् । सर्वातिशयितः सर्वाध्यक्षः सर्वेश्वरेश्वरः॥ १३० षड्विंशको महाविष्णुर्महागुह्यो महाविभुः । नित्योदितो नित्ययुक्तो नित्यानन्दः सनातनः १३१ मायापतिर्योगपतिः कैवल्यपतिरात्मभूः । जन्ममृत्युजरातीतः कालातीतो भवातिगः ॥ १३२ पूर्णः सत्यः शुद्धबुद्धस्वरूपो नित्यचिन्मयः । योगप्रियो योगगम्यो भवबन्धैकमोचकः ॥ १३३ पुराणपुरुषः प्रत्यक्चैतन्यः पुरुषोत्तमः । वेदान्तवेद्यो दु यस्तापत्रयविवर्जितः ॥ १३४ ब्रह्मविद्याश्रयोऽनघः [*स्वप्रकाशः स्वयंप्रभुः। सर्वोपाय उदासीनः प्रणवः१०० सर्वतः समः।। सर्वानवद्यो दुष्पाप्यस्तुरीयस्तमसः परः] । कूटस्थः सर्वसंश्लिष्टो वाङ्मनोगोचरातिगः ॥१३६ संकर्षणः सर्वहरः कालः सर्वभयंकरः । अनुल्लघ्यश्चित्रगतिर्महारुद्रो दुरासदः॥ मूलप्रकृतिरानन्दः प्रद्युम्नो विश्वमोहनः । महामायो विश्वबीजं परशक्तिः सुखैकः ॥ १३८ सर्वकाम्योऽनन्तलीलः सर्वभूतवशंकरः । अनिरुद्धः सर्वजीवो हृषीकेशो मनःपतिः॥ १३९
* धनुश्चिनान्तर्गतः पाठः क. स. च. ज. झ. अ. द. फ. पुस्तकस्थः ।।
१ झ. म. 'य स्वा । २ ख. ज. फ. 'नर्घः स्व ।