________________
७० सप्ततितमोऽध्यायः ] पद्मपुराणम् ।
१३८९ द्वादशी श्रवणोपेता यदा भवति नारद । संगमे सरितां स्नात्वां लभेद्गोदान फलम् ॥ ५ जलपूर्ण तदा कुम्भं स्थापयित्वा विचक्षणः। तस्योपरि न्यसेत्पात्रं स्थापयित्वा जनार्दनम् ॥६ ततस्तस्याग्रतो देयं नैवेद्यं घृतपाचितम् । सोदकांश्च नवान्कुम्भान्दद्याच्छक्त्या विचक्षणः ॥ ७ एवं संपूज्य गोविन्दं जागरं तत्र कारयेत् । प्रभाते विमले स्नात्वा संपूज्य गरुडध्वजम् ॥ ८ पुष्पधूपादिनैवेद्यः फलेवस्त्रेः सुशोभनैः । पुष्पाञ्जलिं ततो दद्यान्मत्रमेतमुदीरयेत् ।। नमो नमस्ते गोविन्द बुधश्रवणसंयुत । अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव ॥ १० अन्नं तु ब्राह्मणे पूतं वेदवेदाङ्गपारगे । पुराणज्ञे विशेषेण विधिवत्संप्रदापयेत् ॥ अनेन विधिना चैव नद्यास्तीरे नरोत्तमः । सर्व निर्वर्तयेत्सम्यगेकचित्तरतोऽपि सन् ॥ १२ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । महत्यरण्ये यवृत्तं भूमिदेव शृणुष्व तत् ॥ तां कथां तु प्रवक्ष्यामि शृणु देवर्षिसत्तम । यां श्रुत्वा मानवो लोके महादुःखात्ममुच्यते ॥ १४ देशो दाशेरको नाम तस्य भागे च पश्चिमे । तत्र विद्वन्मरुदेशः सर्वसत्त्वभयंकरः॥ सुतप्तसिकता भूमिर्यत्र दुष्टा महोरगाः । अल्पच्छायद्रुमाकीर्णा मृतप्राणिसमाकुला ॥ १६ शमीखदिरपालाशकरीरैः पीलुभिः सह । तत्र भीमद्रुमगणाः कण्टकैराचिता दृढः ॥ १७ दग्धप्राणिजनाकीर्णा यत्र भूदृश्यते कचित् । तथापि जीवा जीवन्ति सर्वे कर्मनिबन्धनात् ॥१८ नोदकं नोदकाधारा विद्वंस्तत्र बलाहकाः । पक्षान्तरगतैः कैश्चिच्छिशुभिस्तृषितैः समम् ॥ १९ उत्क्रान्तजीवना विप्र दृश्यन्ते च खगोत्तमाः । तस्मिंस्तथाविधे देशे कश्चिदैववशाद्वाणक् ॥ २० निजसार्थपरिभ्रष्टः प्रविष्टो मरुजाङ्गले । बभ्रामोद्धान्तहृदयः श्रुतृड्भ्यां श्रमपीडितः ॥ २१ क ग्रामः क जलं काहं यास्यामि न बुवोध ह । अथ प्रेतान्ददर्शासो क्षुत्तृषाव्याकुलेन्द्रियान्२२ उत्कटान्मलिनान्भीमान्निर्मासान्रौद्रदर्शनान् । प्रेतस्कन्धसमारूढमेकं विकृतदर्शनम् ॥ २३ ददर्श बहुभिः प्रेतैः समन्तात्परिवारितम् । आगच्छमानमत्युग्रं प्रेतशब्दपुरःसरम् ॥ २४ प्रेतोऽपि दृष्ट्वा तां घोरामटवीमागतं नरम् । प्रेतस्कन्धान्महीं गत्वा तस्यान्तिकमुपागमत् ॥ मणिपत्य वणिक्श्रेष्ठमिदं वचनमब्रवीत् ।
प्रेत उवाचअस्मिन्धोरतरे देशे प्रवेशो भवतः कथम् । तमुवाच वणिग्धीमान्सार्थभ्रष्टस्य मे वने ॥ २६ प्रवेशो दैवयोगेन पूर्वकर्मकृतेन च । तृषा मे बाधतेऽत्यर्थ क्षुधा चैव भृशं तथा ॥ पाणान्तिकमनुपाप्तं शरीरं भ्रमतीव मे । अप्रोपायं न पश्यामि जीवेयं येन केनचित् ॥ २८
शिव उवाचइत्येवमुक्ते प्रेतस्तं वणिज वाक्यमब्रवीत् ।
प्रेत उवाचफुल्लां शमी समाश्रित्य प्रतीक्षस्व मुहूर्तकम् । कृतातिथ्यो मया पश्चाद्गमिष्यसि यथासुखम् ॥३०
शिव उवाचएवमुक्तस्तथा चक्रे स वणिक्तृष्णयादितः । मध्याह्नसमये प्राप्ते प्रेतस्तं देशमागतः ॥ ३१
१च. त्या व्रत विधियदाचरेत् । ज । २ च. म् । दध्योदनं सोदकुम्भा । ३ च व । तत्सर्व ब्राह्मणे दद्याद्वेद । ४ फ. स्मण्डले।