________________
१३८८
[६ उत्तरखण्डे
महामुनिश्रीव्यासप्रणीतं
अधोनसप्ततितमोऽध्यायः ।
महेश्वर उवाचशृणु नारद वक्ष्यामि वैष्णवानां च लक्षणम् । यच्छ्रुत्वा मुच्यते लोको ब्रह्महत्यादिपातकात्॥१ तेषां वै लक्षणं यादृक्स्वरूपं यादृशं भवेत् । तादृशं मुनिशार्दूल शृण त्वं वच्मि सांप्रतम् ॥ २ . विष्णोरयं यतो ह्यासीत्तस्माद्वैष्णव उच्यते । सर्वेषां चैव वर्णानां वैष्णवः श्रेष्ठ उच्यते ॥ ३ येषां पुण्यतमाहारास्तेषां वंशे तु वैष्णवः । क्षमा दया तपः सत्यं येषां वै तिष्ठति द्विज ॥ ४ तेषां दर्शनमात्रेण पापं नश्यति तूलवत् । हिंसाधर्माद्विनिर्मुक्तो यस्य विष्णौ स्थिता मतिः ॥५ । शङ्ख चक्र गदां पद्मं नित्यं वै धारयेत्तु यः । तुलसीकाप्टजां मालां कण्ठे वै धारयेत्तु यः॥ ६ तिलकान्द्वादशानेव नित्यं वै धारयेद्बुधः । धर्माधर्म तु जानाति स च वैष्णव उच्यते ॥ ७ : वेदशास्त्ररतो नित्यं नित्यं वै यज्ञयाजकः । उत्सवांश्च चतुर्विंशत्कुर्वन्ति च पुनः पुनः (?) ॥ ८ । तेषां कुलं धन्यतमं तेषां वै यश उच्यते । ते वै लोके धन्यतमा जाता भागवता नराः ॥ ९ एक एव कुले यस्य जातो भागवतो नरः । तत्कुलं तारितं तेन भूयो भूयश्च वाडव ॥ १० अण्डजा उद्भिजाश्चैव ये जरायुजयोनयः । ते तु सर्वेऽपि विज्ञेयाः शङ्खचक्रगदाधराः॥ ११ येषां दर्शनमात्रेण ब्रह्महा शुध्यते सदा । किंतु वक्ष्यामि देवर्षे तेभ्यो धन्यतमान्भुवि ॥ १२ वैष्णवा ये तु दृश्यन्ते भुवनेऽस्मिन्महामुने । ते वै विष्णुसमाश्चैव ज्ञातव्यास्तत्त्वकोविदैः॥ १३ कलौ धन्यतमा लोके श्रुता मे नात्र संशयः। विष्णोः पूजा कृता तेन सर्वेषां पूजनं कृतम्॥१४ महादानं कृतं तेन पूजिता येन वैष्णवाः। फलं पत्रं तथा शाकमन्नं वा वस्त्रमेव च ॥ १५ वैष्णवेभ्यः प्रयच्छन्ति ते धन्या भुवि सर्वदा । अर्चितो वे हरियैस्तु सर्वेषां चैव पूजनम् ॥ १६ कृतं यैरचितो विष्णुस्ते वै धन्यतमा मताः । तेषां दर्शनमात्रेण शुध्यन्ते पापका नराः ॥ १७ किमन्यद्बहुनोक्तेन भूयो भूयश्च वाडव । अतो वै दर्शनं तेषां स्पर्शनं सुखदायकम् ॥ १८ यथा विष्णुस्तथाचायं नान्तरं वर्तते कचित् । इति ज्ञात्वा तु भो वत्स सर्वदा पूजयेद्बुधः॥१९ एक एव तु यैविप्रो वैष्णवो भुवि भोज्यते । सहस्रं भोजितं तेन द्विजानां नात्र संशयः ॥ २० - इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादे वैष्णवमाहात्म्यं नामोनसप्ततितमोऽध्यायः ॥ ६९ ॥
आदितः श्लोकानां समष्ट्यङ्काः-३५३३१
अथ सप्ततितमोऽध्यायः ।
नारद उवाचउपवासासमर्थानां सर्वदा सुरसत्तम । एका या द्वादशी पुण्या तां वदस्व ममानघ ॥ १।
शिव उवाचमासि भाद्रपदे शुक्ले द्वादशी श्रवणान्विता । सा वै सर्वपदा पुण्या ह्युपवासे महाफला ॥ २ संगमे सरितां स्नात्वा द्वादशी तामुपोषितः । अयत्नात्समवामोति द्वादशद्वादशीफलम् ॥ ३ बुधश्रवणसंयुक्ता या च वै द्वादशी भवेत् । अतीव महती तस्यां कृतं सर्वमथाक्षयम् ॥ ४
१ इ. 'मृते सदा। ते' । २ क. ज. वैष्णवो यस्तु ।