________________
१३७४ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेतस्या माहात्म्यमनघं श्रुतं सर्वं त्वया नृप । मया तवाग्रे कथितं माहात्म्यं पापनाशनम् ॥ ४८ एकादशीव्रतानां च पक्षयोरुभयोरपि । यथा कृष्णा तथा शुक्ला विभेदं नैव कारयेत् ॥ ४९ सेवितैकादशी नणों भुक्तिमुक्तिप्रदायिनी । धेनुः श्वेता यथा कृष्णा उभयोः सदृशं पयः॥५० तथैव तुल्यफलदं स्मृतमेकादशीद्वयम् । एकादशीव्रतानां यो माहात्म्यं शृणुते नरः॥ सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥ इति श्रीमहापुराणे पान उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे कार्तिककृष्णरमैकादशीमाहात्म्यकथनं .
नाम द्विषष्टितमोऽध्यायः ॥ ६२ ॥ आदितः श्लोकानां समष्टयङ्काः-३४९२८
भथ त्रिषष्टितमोऽध्यायः ।
।
युधिष्ठिर उवाचश्रुतं रमाया माहात्म्यं त्वत्तः कृष्ण यथातथम् । कार्तिक शुक्लपक्षे या तां मे कथय मानद ॥ १
कृष्ण उवाचशृणु राजन्यवक्ष्यामि शुक्ले चोर्जदले तु या । सा यथा नारदायोक्ता ब्रह्मणा लोककारिणा ॥२
नारद उवाचप्रबोधिन्याश्च माहात्म्यं वद विस्तरतो मम । यस्यां जागर्ति गोविन्दो धर्मकर्मप्रवर्तकः॥ ३
ब्रह्मोवाचप्रबोधिन्याश्च माहात्म्यं पापघ्नं पुण्यवर्धनम् । मुक्तिप्रदं सुबुद्धीनां शृणुष्व मुनिसत्तम ॥ ४ तावद्गर्जन्ति तीर्थानि आसमुद्रसरांसि च । यावत्प्रबोधिनी विष्णोस्तिथिर्नाऽऽयाति कार्तिके॥५ तावद्गन्ति विप्रेन्द्र गङ्गा भागीरथी क्षितौ । यावन्नाऽऽयाति पापन्नी कार्तिके हरिबोधिनी ॥६ अश्वमेधसहस्राणि राजसूयशतानि च । एकेनैवोपवासेन प्रबोधिन्यां लभेन्नरः ॥ ७ यहुर्लभं यदप्राप्यं त्रैलोक्यस्य न गोचरम् । तदपि प्रार्थितं पुत्र ददाति हरिबोधिनी ॥ ८ ऐश्वर्य संपदं प्रज्ञां राज्यं च सुखमेव हि । ददात्युपोषिता भक्त्या जनेभ्यो हरिबोधिनी ॥ ९ मेरुमन्दरमात्राणि पापान्युच्चानि यानि च । एकेनैवोपवासेन दहते पापनाशिनी ॥ १० पूर्व जन्मसहस्रेषु यत्पापं समुपार्जितम् । निशि जागरणं चास्या दहते तूलराशिवत् ॥ ११ उपवासं प्रबोधिन्यां यः करोति स्वभावतः। विधिवन्मुनिशार्दूल यथोक्तं लभते फलम् ॥ १२ यथोक्तं कुरुते यस्तु विधिवत्सुकृतं नरः । स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं भवेत्फलम् ॥ १३ विधिहीनं तु यः कुर्यात्सुकृतं मेरुमात्रकम् । अणुमात्रं तदा(स आ)मोति फलं धर्मस्य नारद ॥ ये ध्यायन्ति मनोवृत्त्या ये करिष्यन्ति बोधिनीम् । वसन्ति पितरो हृष्टा विष्णुलोके च तस्य वै विमुक्ता नारकैदुःखैर्यान्ति विष्णोः परं पदम् । कृत्वा तु पातकं घोरं ब्रह्महत्यादिकं नरः ।।१६ कृत्वा तु जागरं विष्णोर्धातपापो भवेन्नरः । दुष्पाप्यं यत्फलं विप्र ह्यश्वमेधादिकैमखैः ॥ १७ प्राप्यते तत्सुखेनैव प्रबोधिन्यास्तु जागरे । आप्पत्य सर्वतीर्थेषु प्रदत्त्वा(दाय) काश्चनं महीम् १८ तत्फलं समवानोति यत्कृत्वा जागरं हरेः । जातः स एव सुकृती कुलं तेनैव पावितम् ॥ १९
१ झ. 'मयुना श्रु। २ . णां भक्ति। ३ ङ. °तं मया च मा । ४ झ. रेः । शानः स एव नृपतिः कु।