SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 7 ६२ द्विषष्टितमोऽध्यायः ] पद्मपुराणम् । १३७३ २६ २७ शोभनः शोभते यत्र राजराजोऽपरो यथा । सोमशर्मेति विख्यातो मुचुकुन्दपुरेऽभवत् ॥ तीर्थयात्राप्रसङ्गेन भ्रमन्विमो ददर्श तम् । नृपजामातरं ज्ञात्वा तत्समीपं जगाम सः ॥ शोभनोऽपि तदा ज्ञात्वा सोमशर्माणमागतम् । आसनादुत्थितः शीघ्रं नमश्च द्विजोत्तमम् ॥ २८ चकार कुशलप्रश्नं श्वशुरस्य नृपस्य च । कान्तायाश्चन्द्रभागायास्तथैव नगरस्य च ॥ सोमशर्मोवाच २९ कुशलं वर्तते राजन्नाश्चर्य विद्यतेऽद्भुतम् । पुरं विचित्रं रुचिरं न दृष्टं केनचित्कचित् । एतदाचक्ष्व नृपते कुतः प्राप्तमिदं त्वया । तत्त्वं कथय राजेन्द्र तत्करिष्यामि नान्यथा ॥ शोभन उवाच - कार्तिकस्यासिते पक्षे या नामैकादशी रमा । तामुपोष्य मया प्राप्तं द्विजेन्द्र पुरमीदृशम् ॥ मयैतद्विहितं विप्र श्रद्धाहीनं व्रतोत्तमम् । तेनाहम्[*ध्रुवं मन्ये ध्रुवं भवति तच्छृणु ॥ मुचुकुन्दस्य दुहिता चन्द्रभागा सुशोभना । तस्यै कथय वृत्तान्तं राजकन्याग्रतो द्विज ॥ श्रीकृष्ण उवाच - स श्रुत्वा वचनं तस्य मुचुकुन्दपुरं गतः । उवाच सर्व वृत्तान्तं चन्द्रभागा ] ग्रतो द्विजः ॥ सोमशर्मोवाच ३० ३१ कृष्ण उवाच - एवं सा नृपशार्दूल रमते पतिना सह । दिव्यभोगा दिव्यरूपा दिव्याभरणभूषिता ॥ शोभनोऽपि तया सार्धं रमते दिव्यविग्रहः । रमाव्रतप्रभावेण मन्दराचलसानुनि ॥ चिन्तामणिसमा ह्येषा कामधेनुसमाऽथवा । रमाभिधाना नृपते तवाग्रे कथिता मया ॥ ३२ ३३ ३४ ३५ प्रत्यक्षं दयिते कान्तस्तव दृष्टो मया शुभे । इन्द्रतुल्यमनाधृष्यं दृष्टं तस्य पुरं मया ॥ अध्रुवं तेन तत्प्रोक्तं ध्रुवं भवति तत्कुरु ।। चन्द्रभागोवाच ३७ तत्र मां नय विप्रर्षे पतिदर्शनलालसाम् । आत्मनो व्रतपुण्येन करिष्यामि पुरं ध्रुवम् ॥ आवयोर्द्विज संयोगो यथा भवति तत्कुरु । प्राप्यते हि महत्पुण्यं कृत्वा योगं वियुक्तयोः ॥ ३८ श्रीकृष्ण उवाच - इति श्रुत्वा सह तया सोमशर्मा जगाम ह । आश्रमं वामदेवस्य मन्दराचलसंनिधौ ॥ ऋषिमन्त्रप्रभावेण विष्णुवासरसेवनात् । दिव्यदेहा बभूवासौ दिव्यां गतिमवाप ह ।। पत्युः समीपमगमत्प्रहर्षोत्फुल्ललोचना । जहर्ष शोभनोऽतीव दृष्ट्वा कान्तां समागताम् ॥ समाहूय स्वके वामे पार्श्वे तां स न्यवेशयत् । अथोवाच प्रियं हर्षा चन्द्रभागा प्रियं वचः ॥ चन्द्रभागोवाच ४१ ४२ शृणु कान्त हितं वाक्यं यत्पुण्यं विद्यते मयि । अष्टवर्षाधिका जाता यदाऽहं पितृवेश्मनि ॥ ४३ [+ ततः प्रभृति यच्चीर्ण मया चैकादशीव्रतम् ] । तेन पुण्यप्रभावेण भविष्यति पुरं ध्रुवम् ॥ सर्वकामसमृद्धं च यावदाभूतसंप्लवम् ।। ४४ ३६ ३९ ४० ४५ ४६ ४७ *धनुश्चिह्नान्तर्गतः पाठः क. ख. च. ज. म. ड. पुस्तकस्थः । +धनुश्चिहान्तर्गतः पाठः क. ख. च. ज. झ. ञ. पुस्तकस्यः । १. नरनारायणो यौं । २ ङ. स्वपुरस्य । ३ ख च ज झ ञ व्रतप्रभावेण ।
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy