SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ ६० षष्टितमोऽध्यायः ] पमपुराणम् । १३६९ जलेन प्लाविता भूमिरभवत्सस्यशालिनी । ऋषीश्वरप्रभावेण लोकाः सौख्यं प्रपेदिरे ॥ ३६ श्रीकृष्ण उवाचएतस्मात्कारणादेव कर्तव्यं व्रतमुत्तमम् । दध्योदनयुतं तस्यां जलपूर्ण घटं द्विजे ॥ वस्त्रसंवष्टितं दत्त्वा छत्रोपानहमेव च । नमो नमस्ते गोविन्द बुधश्रवणसंज्ञक ॥ अघौघसंक्षयं कृत्वा सर्वसौख्यप्रदो भव । भुक्तिमुक्तिपदश्चैव लोकानां सुखदायकः॥ पठनाच्छ्रवणाद्राजन्सर्वपापैः प्रमुच्यते ॥ इति श्रीमहापुराणे पान उत्तरखण्ड उमापतिनारदसंवादान्तर्गतश्रीकृष्णयुधिष्ठिरसंवादे भाद्रशुक्लपकाद शीमाहात्म्यकथनं नामैकोनषष्टितमोऽध्यायः ॥ ५९ ॥ आदितः श्लोकानां समष्टयङ्काः-३४८१३ भथ षष्टितमोऽध्यायः । युधिष्ठिर उवाचकथयस्व प्रसादेन ममाग्रे मधुसूदन । इषस्य कृष्णपक्षे तु किंनामैकादशी भवेत् ॥ श्रीकृष्ण उवाचआश्विने कृष्णपक्षे तु इन्दिरा नाम नामतः। तस्या व्रतप्रभावेण महापापं प्रणश्यति ॥ २ अधोयोनिगतानां च पितॄणां गतिदायिनी । शृणुष्वावहितो राजन्कथां पापहरां पराम् ॥ ३ यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् । पुरा कृतयुगे राजन्बभूव नृपनन्दनः ॥ . ४ इन्द्रसेन इति ख्यातः पुरा माहिष्मतीपतिः । स राजा पालयामास धर्मेण यशसान्वितः॥ ५ पुत्रपौत्रसमायुक्तो धनधान्यसमन्वितः । माहिष्मत्यधिपो राजा विष्णुभक्तिपरायणः ॥ ६ जपन्गोविन्दनामानि मुक्तिदानि नराधिप । कालं नयति विधिवदध्यात्मध्यानचिन्तकः ॥ ७ एकस्मिन्दिवसे राज्ञि सुखासीने सदोगते । अवतीयोगमत्तत्र ह्यम्बरान्नारदो मुनिः॥ ८ तमागतमभिप्रेक्ष्य प्रत्युत्थाय कृताञ्जलिः । पूजयित्वाऽथ विधिना चाऽऽसने स न्यवेशयत् ॥ सुखोपविष्टं स मुनि प्रत्युवाच नृपोत्तमः ॥ राजोवाचत्वत्प्रसादान्मुनिश्रेष्ठ सर्व च कुशलं मम । अद्य क्रतुक्रियाः सर्वाः सफलास्तव दर्शनात् ॥ १० प्रसादं कुरु देवर्षे ब्रह्मन्नागमकारणात् ॥ नारद उवाचश्रूयतां नृपशार्दूल मद्वचो विस्मयप्रदम् । ब्रह्मलोकादहं प्राप्तो यमलोकं नृपोत्तम ॥ १२ शामनेनार्चितो भक्त्या उपविष्टो वरासने । धर्मशीलाः सत्यवन्तो भास्करि समुपासते ॥ १३ बहुपुण्यप्रकारो व्रतवैकल्यदोषतः। सभायां श्राद्धदेवस्य मया दृष्टः पिता तव ॥ कथितस्तेन संदेशस्तं निबोध जनेश्वर । इन्द्रसेन इति ख्यातो राजा माहिष्मतीपतिः॥ १५ तस्याग्रे कथय ब्रह्मन्स्थितं मां यमसंनिधौ । केनापि चान्तरायेण पूर्वजन्मोद्भवेन च ॥ १६ स्वर्ग प्रणय मां पुत्र इन्दिरापुण्यदानतः । इत्युक्तोऽहं समायातः समीपं तव पार्थिव ॥ पितुः स्वर्गकृते राजनिन्दिराव्रतमाचर ॥ १ रु. म. ज्ञकम् । अ। २ ङ. झ. 'रणम् । ना। १७२
SR No.010655
Book TitlePadmapurana Part 04
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Apte
PublisherAnand Ashram
Publication Year1894
Total Pages697
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size42 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy