________________
१३६८ महामुनिश्रीव्यासप्रणीतं
[ ६ उत्तरखण्डेप्रजा ऊचुःश्रोतव्यं नृपशार्दूल प्रजानां वचनं त्वया । आपो नारा इति प्रोक्ताः पुराणेषु मनीषिभिः॥१४ अयनं ता भगवतस्तस्मानारायणः स्मृतः । पर्जन्यरूपो भगवान्विष्णुः सर्वगतः स्थितः ॥ १५ स एव कुरुते दृष्टिं दृष्टेरन्नं ततः प्रजाः । तदभावे नृपश्रेष्ठ क्षयं गच्छन्ति वै प्रजाः॥ तथा कुरु नृपश्रेष्ठ योगक्षेमं यथा भवेत् ॥
राजोवाचसत्यमुक्तं भवद्भिश्च न मिथ्याऽभिहितं कचित् । अन्नं ब्रह्म यतः प्रोक्तमन्ने सर्व प्रतिष्ठितम्॥१७ अन्नाद्भवन्ति भूतानि जगदन्नेन वर्तते । इत्येवं श्रूयते लोके पुराणे बहुविस्तरम् ॥ १८ नृपाणामपचारेण प्रजानां पीडनं भवेत् । नहिं पश्याम्यात्मकृतमेवं बुद्ध्या विचारयन् ॥ तथाऽपि प्रयतिष्येऽहं प्रजानां हितकाम्यया ॥
ब्रह्मोवाचइति कृत्वा मतिं राजा परिमेयपरिच्छदः । नमस्कृत्य विधातारं जगाम गहनं वनम् ॥ २० चचार मुनिमुख्या(ख्यै)श्च भाश्रमांस्तापसैः श्रितान् । ददर्शाथ ब्रह्ममुतमृषिमङ्गिरसं नृपः ॥२१ तेजसा द्योतितदिशं द्वितीयमिय पद्मजम् । तं दृष्ट्वा हर्षितो राजा अवतीर्य स्ववाहनात् ॥ २२ नमश्चक्रेऽस्य चरणौ कृताञ्जलिपुटो वशी । मुनिस्तमभिनन्द्याथ स्वस्तिवाचनपूर्वकम् ॥ २३ पप्रच्छ कुशलं राज्ये सप्तस्वङ्गेषु भूपतेः । स निवेद्य स्वकुशलं पप्रच्छानामयं नृपः॥ २४ दत्तासनो गृहीताय॑ उपविष्टोऽस्य संनिधौ । प्रत्युवाच मुानं राजा पृष्टो ह्यागमकारणम् ॥ २५
राजोवाचभगवन्धर्मविधिना मम पालयतो महीम् । अनावृष्टिश्च संवृत्ता नाहं वेद्यत्र कारणम् ॥ २६ संशयच्छेदनायात्र आगतोऽहं तवान्तिके । योगक्षेमविधानेन प्रजानां कुरु नितिम् ॥
ऋषिरुवाचएतत्कृतयुगं राजन्युगानामुत्तमं मतम् । अत्र ब्रह्मपरा लोका धर्मश्चात्र चतुष्पदः॥ २८ । अस्मिन्युगे तपोयुक्ता ब्राह्मणा नेतरे जनाः। विषये तव राजेन्द्र वृषलोऽयं तपस्यति ॥ २९ एतस्मात्कारणाच्चैव न वर्षन्ति बलाहकाः । कुरु तस्य वधे यत्नं येन दोषः प्रशाम्यति ॥ ३०
राजोवाचनाहमेतं वधिष्यामि तपस्यन्तमनागसम् । धर्मोपदेशं कथय उपसर्गविनाशनम् ॥
ऋषिरुवाचयद्येवं तर्हि नृपते कुरुष्वैकादशीव्रतम् । नभस्यस्य सिते पक्षे पद्मनाभेति विश्रुता ॥ तस्या व्रतप्रभावेण सुदृष्टिविता ध्रुवम् । सर्वसिद्धिप्रदा ह्येषा सर्वोपद्रवनाशिनी ॥ अस्या व्रतं कुरु नृप समजः सपरिच्छदः॥
ब्रह्मोवाचइति वाक्यमृषेः श्रुत्वा राजा स्वगृहमागतः । भाद्रमासे सिते पक्षे पद्मावतमथाकरोत् ॥ ३४ प्रजाभिः सह सर्वाभिश्चातुर्वर्ण्यसमन्वितः । एवं व्रते कृते राजन्म(ज्ञा प्र)ववर्ष वलाहकः॥ ३५ ।
१च. नाहमाजन्मतः कापि कृतवान्पातक प्रजाः । त।