________________
५९ एकोनषष्टितमोऽध्यायः ]
पद्मपुराणम्। श्रीकृष्ण उवाचइत्येवं कथयित्वा च मुनिरन्तरधीयत । मुनिवाक्यं नृपः श्रुत्वा चकार व्रतमुत्तमम् ॥ १७ कृते तस्मिन्नते राज्ञः पापस्यान्तोऽभवत्क्षणात् । श्रूयतां राजशार्दूल प्रभावोऽस्य व्रतस्य च १८ यदुःखं बहुभिर्वभॊक्तव्यं तत्क्षयो भवेत् । निस्तीर्णदुःखो राजाऽऽसीद्वतस्यास्य प्रभावतः१९ पल्या सह समासङ्गं पुत्रजीवनमाप सः । दिवि दुन्दुभयो नेदुः पुष्पवर्षमभूद्दिवः ॥ २० एकादश्याः प्रभावेण प्राप्य राज्यमकण्टकम् । स्वर्ग लेभे हरिश्चद्रः सपुरः सपरिच्छदः॥ २१ ईदृग्विधं व्रतं राजन्ये कुर्वन्ति च मानवाः । सर्वपापविनिर्मुक्तास्त्रिदिवं यान्ति ते नृप ॥ पठनाच्छ्रवणोद्वाऽपि अश्वमेधफलं लभेत् ॥
२२ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्ठिरसंवादे भाद्रपद कृष्णाजैकादशी.
माहात्म्यकथनं नामाष्टपञ्चाशत्तमोऽध्यायः ॥ ५८ ॥ आदितः श्लोकानां समष्ट्यङ्काः-३४७७४
अथोनषष्टितमोऽध्यायः ।
युधिष्ठिर उवाचनभस्यस्य सिते पक्षे किनामैकादशी भवेत् । को देवः को विधिस्तस्या एतदाख्याहि केशव ॥१
श्रीकृष्ण उवाचकथयामि महीपाल कथामाश्चर्यकारिणीम् । कथयामास यां ब्रह्मा नारदाय महात्मने ॥ २
नारद उवाच-- कथयस्व प्रसादेन चतुर्मुख नमोऽस्तु ते । नभस्य शुक्लपक्षे तु किंनामैकादशी भवेत् ॥ एतदिच्छाम्यहं श्रोतुं विष्णोराराधनाय वै ॥
ब्रह्मोवाच-- वैष्णवोऽसि मुनिश्रेष्ठ साधु पृष्टं किल त्वया । नातः परतरा लोके पवित्रा हरिवासरात् ॥ ४ पद्मनाभेति विख्याता नभस्यैकादशी सिता । हृषीकेशः पूज्यतेऽस्यां कर्तव्यं व्रतमुत्तमम् ॥ ५ कथयामि तवाग्रेऽहं कथां पौराणिकी शुभाम् । यस्याः श्रवणमात्रेण महापापं प्रणश्यति ॥ ६ मांधाता नाम राजर्षिविवस्ववंशसंभवः । बभूव चक्रवर्ती स सत्यसंधः प्रतापवान् ॥ ७ धमेतः पालयामास प्रजाः पुत्रानिवौरसान् । न तस्य राज्ये दुभिक्षं नाऽऽधयो व्याधयस्तथा ८ निरातङ्काः प्रजास्तस्य धनधान्यसमेधिताः। न्यायेनोपार्जितं वित्तं तस्य कोशे महीपतेः॥ ९ स्वस्वधर्म प्रवर्तन्ते सर्वे वर्णाश्रमास्तथा । कामधेनुसमा भूमिस्तस्य राज्ये महीपतेः॥ १० तस्येवं कुवेतो राज्यं बहुसौख्यं गताः प्रजाः। अथैकस्मिश्च संप्राप्ते विपाके कर्मणः खलु ॥ ११ वषत्रयं तद्विषये न ववृषुर्वलाहकाः। तेन भग्नाः प्रजास्तस्य बभूवुः क्षुधयाऽर्दिताः॥ . १२ स्वाहास्वधावषट्कारवेदाध्ययनवर्जिताः । बभूव विषयस्तस्याभाग्येन दैवपीडितः॥ अथ प्रजाः समागम्य राजानमिदमब्रुवन् ।
१य. 'णाच्चापि । २ख, ज. स. फलम् ।