________________
१३६१
५५ पञ्चपञ्चाशत्तमोऽध्यायः ] पद्मपुराणम् । शिवपूजनवेलायां कुबेराय समर्पये । एकस्मिन्दिवसे चैव कालश्चाविदितो मया ॥ २५ पत्नीसौख्यप्रसक्तेन शोकव्याकुलचेतसा । ततः क्रुद्धेन शप्तोऽस्मि राजराजेन वै मुने ॥ २६ कुष्ठाभिभूतः संजातो वियुक्तः कान्तया तया । अधुना तव सांनिध्ये प्राप्तोऽस्मि शुभकर्मणा २७ सतां स्वभावतश्चित्तं परोपकरणे क्षमम् । इति ज्ञात्वा मुनिश्रेष्ठ मां प्रशाधि कृतागसम् ॥ २८
मार्कण्डेय उवाचत्वया सत्यमिह प्रोक्तं नासत्यं भाषितं यतः । अतो व्रतोपदेशं ते कथयामि शुभप्रदम् ॥ २९ आषाढे कृष्णपक्षे तु योगिनीव्रतमाचर । अस्य व्रतस्य पुण्येन कुष्ठं यास्यति वै ध्रुवम् ॥ ३०
श्रीकृष्ण उवाचइति वाक्यमृषेः श्रुत्वा दण्डवत्पतितो भुवि । उत्थापितः स मुनिना बभूवातीव हर्षितः ।। ३१ मार्कण्डेयोपदेशेन व्रतं तेन कृतं यथा । अष्टादशैव कुष्ठानि गतानि तस्य सर्वशः ॥ मुनेर्वचनतः सम्यग्व्रते चीर्णेऽभवत्सुखी । ईदृग्विधं नृपश्रेष्ठ कथितं योगिनीव्रतम् ॥ ३३ अष्टाशीतिसहस्राणि द्विजान्भोजयते तु यः। तत्समं फलमामोति योगिनीव्रतकृन्नरः॥ ३४ महापापप्रशमनी महापुण्यफलप्रदा । पठनाच्छ्रवणान्मर्त्यः सर्वपापैः प्रमुच्यते ॥ इति श्रीमहापुराणे पाद्म उत्तरखण्ड उमापतिनारदसंवादान्तर्गतकृष्णयुधिष्टिरसंवाद भाषाढकृष्णयोगिन्येकादशीमाहात्म्य
कयनं नाम चतुष्पश्चाशत्तमोऽध्यायः ॥ ५४ ।। आदितः श्लोकानां समष्ठ्यङ्काः-३४६४२
३२
भथ पश्चपश्चाशत्तमोऽध्यायः ।
युधिष्ठिर उवाचआषाढस्य सिते पक्षे का च एकादशी भवेत् । किंनामको विधिस्तस्या एतद्विस्तरतो वद ॥ १
श्रीकृष्ण उवाचकथयामि महापुण्यां स्वर्गमोक्षपदायिनीम् । शयनी नाम नाम्ना तु सर्वपापहरा पराम् ॥ २ यस्याः श्रवणमात्रेण वाजपेयफलं लभेत् । सत्यं सत्यं मया प्रोक्तं नातः परतरं नृणाम् ॥ ३ पापिनां पापनाशाय सृष्टं धात्रा महोत्तमम् । अतः परा न राजेन्द्र वर्तते मोक्षदा परा॥ ४ एतस्मात्कारणाद्राजश्रूयतां गतिरुत्तमा । भवेन्नराणां श्रोतृणां कथायाः श्रवणादपि ॥ ५ ते सदा वैष्णवा राजन्मम भक्तिपरायणाः। आषाढे वामनश्चैव पूज्यते परमेश्वरः॥ ६ वामनः पूजितो येन कमलैः कमलेक्षणः। आषाढस्य सिते पक्षे कामिकाया(शयन्याश्च) दिने तथा तेनाचितं जगत्सर्वं त्रयो देवाः सनातनाः। कृता चैकादशी येन हरिवासरमुत्तमम् ॥ ८
युधिष्ठिर उवाचसंशयोऽस्ति महान्मेऽत्र श्रूयतां पुरुषोत्तम । कथं सुप्तोऽसि देवेश कथं च बलिमाश्रितः ॥ ९ कथं भूमौ च सर्वेश किं कुर्वन्ति जनाः परे । एतद्वद महाप्राज्ञ संशयोऽस्ति महान्मम ॥ १०
श्रीकृष्ण उवाचश्रूयतां राजशार्दूल कथा पापप्रणाशिनी । यस्याः श्रवणमात्रेण सर्वपापक्षयो भवेत् ॥ ११
१ हु. सुधीः । ई । २ . कामिका । ज. भामिकां ।