________________
१४
१३५८ महामुनिश्रीव्यासप्रणीनं
[ ६ उत्तरखण्डेमहादेव उवाचभीमसेनवचः श्रुत्वा व्यासो वचनमब्रवीत् ॥
व्यास उवाचयदि स्वर्गो ह्यभीष्टस्ते नरको दुष्ट एव च । एकादश्यां न भोक्तव्यं पक्षयोरुभयोरपि ॥ १५
भीमसेन उवाचपितामह महाबुद्धे कथयामि तवाग्रतः । एकभुक्ते न शक्नोमि उपवासे कुतः प्रभो ॥ १६ वृको नाम च यो वह्निः स सदा जठरे मम । अतिवेलं यदाऽश्नामि तदा समुपशाम्यति ॥ १७ एकं शक्रोम्यहं कर्तुमुपवासं महामुने । येनैव प्राप्यते स्वर्गस्तत्कास्मि यथातथम् ॥ तदेकं वद निश्चित्य येन श्रेयोऽहमामुयाम् ॥
___व्यास उवाचवृषस्थे मिथुनस्थे वा यदा चैकादशी भवेत् । ज्येष्ठमासे प्रयत्नेन सोपोष्योदकवर्जितम् ॥ १९ गण्डूपाचमनं वारि वर्जयित्वोदकं बुधः । उपभुञ्जीत नेवेह व्रतभङ्गोऽन्यथा भवेत् ॥ २० उदयादुदयं यावद्वर्जयित्वोदकं नरः । अयत्नात्समवानोति द्वादशद्वादशीफलम् ॥ ततः प्रभाते विमले द्वादश्यां स्नानमाचरेत् । जलं सुवर्ण दत्त्वा च द्विजातिभ्यो यथाविधि ॥२२ भुञ्जीत कृतकृत्यस्तु ब्राह्मणेः सहितो वशी । एवं कृते तु यत्पुण्यं भीमसेन शृणुष्व तत् ॥ २३ संवत्सरे तु याश्चैव एकादश्यो भवन्ति हि । तासां फलमवाप्नोति ह्यत्र मे नास्ति संशयः ॥ २४ इति मां केशवः प्राह शङ्खचक्रगदाधरः। सर्वान्परित्यज्य पुमान्मामेकं शरणं व्रजेत् ॥ २५ एकादश्यां निराहारस्ततः पापात्प्रमुच्यते । द्रव्यशुद्धिः कलौ नास्ति संस्कारः स्माते एव च२६ वैदिकस्तु कुतश्चापि प्राप्ते दुष्टे कलौ युगे । किं तु ते बहुनोतेन वायुपुत्र पुनः पुनः ॥ २७ एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । एकादश्यां सिते पक्षे ज्येष्ठे मास्युदकं विना ॥ २८ पुण्यं फलमवामोति तच्छृणुष्व वृकोदर । संवत्सरे तु याः प्रोक्ताः शुक्लाः कृष्णा वृकोदर ॥२९ उपोषिता हि सर्वाः स्युरेकादश्यो न संशयः । धनधान्यपदा पुण्या पुत्रारोग्यशुभप्रदा ॥ ३० उपोषिता नरव्याघ्र इति सत्यं ब्रवीमि ते । यमदूता महाकायाः करालाः कृष्णरूपिणः ॥ ३१ दण्डपाशधरा रौद्रा नोपसपन्ति तं नरम् । पीताम्बरधराः सौम्याश्चक्रहस्ता मनोजवाः॥ ३२ अन्तकाले नयन्त्येतं वैष्णवं वैष्णवी पुरीम् । तस्मात्सर्वप्रयत्नेन उपोष्योदकवर्जिता ॥ ३३ जलधेनुं तदा दत्त्वा सर्वपापैः प्रमुच्यते । ततस्त्वमपि भूपाल सोपवासोऽर्चनं हरेः॥ ३४ कुरु सर्व प्रयत्नेन सर्वपापप्रशान्तये । स्वमे न मेऽपराधोऽस्ति दन्तरागतयाऽपि वा ।। ३५ भोक्ष्ये परेऽह्नि देवेश ह्यशनं वासराद्धरेः । इत्युच्चार्य ततो मत्रमुपवासपरो भवेत् ॥ ३६ सर्वपापविनाशाय श्रद्धादमसमन्वितः । मेरुमन्दरमात्राघं स्त्रिया पुंसा च यत्कृतम् ॥ ३७ सर्व तद्भस्मतां याति एकादश्याः प्रभावतः । न शक्नुवन्ति ये दातुं जलधेनुं नराधिप ॥ ३८ सकाञ्चनः प्रदातव्यो घटको वस्त्रसंयुतः । तोयस्य नियमं योऽस्यां कुरुते वै स पुण्यभाक् ॥ ३९ फलं कोटिसुवर्णस्य यामे यामे श्रुतं फलम्( नृप)। स्नानं दानं जपो होमो यदस्यां कुरुते नरः
* एतदने क्वचित्पुस्तके 'इति श्रुत्वा ततश्चक्रुः पाण्डवाः सर्व एव हि' इत्यर्धमधिकम् ।
१च. झ. म. अतितैलं । २ झ. म. जपं होमं य ।