________________
-
४६ षट्चत्वारिंशोऽध्यायः ]
पद्मपुराणम् । अथ षट्चत्वारिंशोऽध्यायः ।
युधिष्ठिर उवाचफाल्गुनस्यासिते पक्षे किंनाम्न्येकादशी भवेत् । कथयस्व प्रसादेन वासुदेव ममाग्रतः ॥ १
कृष्ण उवाचनारदः पारपप्रच्छ ब्रह्माणं कमलासनम् । फाल्गुनस्यासिते पक्षे विजया नाम नामतः ॥ तस्याः पुण्यं सुरश्रेष्ठ कथयस्व प्रसादतः॥
ब्रह्मोवाचशृणु नारद वक्ष्यामि कथां पापहरां पराम् । यन्न कस्यचिदाख्यातं मयैतद्विजयावतम् ॥ ३ पुरातनं व्रतं ह्येतत्पवित्रं पापनाशनम् । जयं ददाति विजया नृपाणां वै न संशयः ॥ ४ पुरा रामो वनं यातो वीण्येव चतुर्दश । न्यवसत्पञ्चवां तु ससीतः सहलक्ष्मणः ॥ तत्रैव वसतस्तस्य रामस्य विजयात्मनः । रावणेन हृता लोल्याद्भार्या सीता तपस्विनी ॥ ६ तेन दुःखेन रामोऽपि मोहमभ्यागतस्तदा । भ्रमञ्जटायुषमथो ददर्श विगतायुपम् ॥ कवन्धो निहतः पश्चाद्धमताऽरण्यमध्यतः । सुग्रीवेण समं तस्य सखित्वं समपद्यत ॥ वानराणामनीकानि रामार्थ संगतानि च । ततो हनूमता दृष्टा लङ्कोद्याने तु जानकी ॥ रामसंज्ञापनं तस्यै दत्तं कर्म महत्कृतम् । समेत्य रामं स पुनः सर्व तत्र न्यवेदयत् ॥ १० अथ श्रुत्वा रामचन्द्रो वाक्यं चैव हनुमतः । सुग्रीवानुमतेनैव प्रस्थानं समरोचयत् ॥ . श्रीराम उवाचसौमित्रे केन पुण्येन तीर्यते वरुणालयः । अगाधो नितरामेष यादोभिश्च समाकुलः ॥ उपायं नैव पश्यामि येनैव सुतरो भवेत् ॥
लक्ष्मण उवाचआदिदेवस्त्वमेवासि पुराणः पुरुषोत्तमः । बकदाल्भ्यो मुनिश्चात्र वर्तते द्वीपमध्यतः॥ अस्मात्स्थानाद्योजनार्धमाश्रमस्तस्य राघव । अन्ये च ब्राह्मणास्तत्र बहवो रघुनन्दन ॥ तं पृच्छ गत्वा राजेन्द्र पुराणमृपिपुंगवम् ॥
ब्रह्मोवाचइति वाक्यं ततः श्रुत्वा लक्ष्मणस्यातिशोभनम् । जगाम राघवो द्रष्टुं बकदालभ्यं महामुनिम् १६ पणनाम मुनि मूर्धा रामो विष्णुमिवामरः । ज्ञात्वा मुनिस्ततो रामं पुराणं पुरुपोत्तमम् ॥ १७ केनापि कारणेनैव प्रविष्टं मानुषीं तनुम् । उवाच स ऋषिस्तुष्टः कुतो राम तवाऽऽगमः ॥ १८
राम उवाचत्वत्प्रसादादहं विप्र तीरं नदनदीपतेः । आगतोऽस्मि ससैन्योऽत्र लङ्कां जेतुं सराक्षसाम् ॥ १९ भवतश्चानुकूलत्वात्तीयतेऽधिर्यथा मया । तमुपायं वद मुने प्रसादं कुरु सांप्रतम् ॥ एतस्मात्कारणादेव द्रष्टुं त्वामिह चाऽऽगतः ॥
ब्रह्मोवाच --- रामस्य वचनं श्रुत्वा बकदाल्भ्यो महामुनिः । उवाच सुप्रसन्नात्मा रामं राजीवलोचनम् ॥२१
१५
१ ख. च. च. झ. अ.
र्या रामस्य जानकी । ते'।