________________
ah
४० चत्वारिंशोऽध्यायः ] पद्मपुराणम् । निहते दानवे तस्मिंस्तत्र देवस्त्वबुध्यत । पतितं दानवं दृष्ट्वा ततो विस्मयमागतः ॥ ८७
विष्णुरुवाचकेनायं च हतो रौद्रो ह्यत्युग्रो मम शत्रुकः । अत्युग्रं च कृतं कर्म मम कारुण्यता कृता ॥ ८८
कन्योवाचतेन देवाश्च गन्धर्वाः सयक्षोरगराक्षसाः । इन्द्राद्याः सकला जित्वा स्वर्गाच्चैव निराकृताः ॥८९ हरिः सुप्तो मया दृष्टो मुरः पृष्ठे समागतः । संहरिष्यति(ष्यामि) त्रैलोक्यं सुप्ते चैव जनार्दने ।
श्रीकृष्ण उवाचतस्यास्तद्वचनं श्रुत्वा विष्णुर्वचनमब्रवीत् । ।
विष्णुरुवाचअहं च निर्जितो येन कथं सोऽपि त्वया जितः ॥
एकादश्युवाचत्वत्मसादाच्च भोः स्वामिन्महादैत्यो मया हतः ॥
श्रीभगवानुवाचअनन्तं त्रिषु लोकेषु मुनयो देवता गताः । ब्रूहि त्वं च मया भद्रे यत्ते मनसि रोयते ॥ ददामि च न संदेहो यत्सुरैरपि दुलेभम् ।
एकादश्युवाचयदि तुष्टोऽसि मे देव सत्यमुक्तं जनार्दन । वरमेकं तु वाञ्छामि हृदये च जगत्पते ॥ ९५ प्रार्थयामि च देवेश ईप्सितं च मया प्रभो । यदि सत्यं जगन्नाथ तिस्रो वाचो ददासि मे ॥९६
श्रीभगवानुवाचसत्यं सत्यं मया प्रोक्तमवश्यं तव सुव्रते । तिस्रो वाचो मया दत्ता न चावाक्यं भवेदिह ॥ ९७
एकादश्युवाचत्रिभुवनेषु देवेश चतुर्युगेषु सांप्रतम् । त्रिषु लोकेषु सर्वत्र तादृशं कुरु मे प्रभो ॥ ९८ सर्वतीर्थप्रधानं हि सर्वविघ्नविनाशिनी । सर्वसिद्धिकरी देवी त्वत्प्रसादाद्भवाम्यहम् ॥ ९९ मामुपोष्यन्ति ये भक्त्या तव भक्त्या जनार्दन । सर्वसिद्धिर्भवेत्तेषां यदि तुष्टोऽसि मे प्रभो॥ उपवासं च नक्तं च एकभुक्तं करोति यः । तस्य वित्तं च धर्म च मोक्षं वै देहि माधव ॥ १०१
विष्णुरुवाचयत्त्वं वदसि कल्याणि तत्सर्वं च भविष्यति । सर्वान्मनोरथान्भद्रे दास्यसि त्वं च नान्यथा ॥
एकादश्युवाचमम भक्ताश्च ये लोके ये च भक्तास्तु कार्तिके। ये(ने) चतुर्युगेषु विख्यातात्रिषु लोकेषु वै प्रभो॥
श्रीभगवानुवाचत्वां च शक्तिमहं मन्य एकादशीव्रतस्थिताः । मम पूजां करिष्यन्ति मोक्षगास्ते न संशयः १०४ तृतीया चाष्टमी चैव नवमी च चतुर्दशी । एकादशी विशेषेण तिथिरेषा हरिप्रिया ॥ १०५ सर्वतीर्थादि[धि] पुण्यं सत्यं सत्यं न संशयः। शत्रून्हंस्यपरांस्त[सि स्वभक्तस्य ददासि परमां गतिम् ॥ त्वं हंसि सर्वविघ्नानि सर्वसिद्धिवरपदा ।