________________
प्राकृतव्याकरणम् [सू. ८-१-१२
न श्रदुदोः ॥ ८।१।१२॥ श्रद् उद् इत्येतयोरन्त्यव्यञ्जनस्य लुग् न भवति ॥ सदहिअं । सद्धा। उग्गयं । उन्नयं ॥ १२ ॥
निर्दुरोर्वा ॥ ८।१।१२ ॥ निर् दुर् इत्येतयोरन्त्यव्यञ्जनस्य वा लुग् न भवति ॥ निस्सहं नसिहं दुस्सहो दूसहो । दुक्खिओ दुहिओ ॥ १३ ॥
स्वरेन्तरश्च ॥ ८।१ । १४ ॥ अन्तरो निर्दुशेश्चान्त्यव्यञ्जनस्य स्वरे परे लुग् न भवति ॥ अन्तरप्पा ॥ निरन्तरं । निरवसेसं ॥ दुरुत्तरं । दुरवगाह ॥ क्वचिद् भवत्यपि । अन्तोवरि ॥ १४ ॥
स्त्रियामादविद्युतः॥ ८।१ । १५ ॥ स्त्रियां वर्तमानस्य शब्दस्यान्त्यव्यञ्जनस्य आत्वं भवति विद्युच्छब्दं वर्जयित्वा । लुगपवादः ॥ सरित् । सरिआ ॥ प्रतिपद् । पाडिवआ ॥ संपत् । संपआ । बहुलाधिकाराद् ईषत्स्पृष्टतरयश्रुतिरपि । सरिया । पाडिवया । संपया ॥ अविद्युत इति किम् । विज्जू ॥ १५ ॥
रोरा ॥८।१।१६॥ स्त्रिया वर्तमानस्यान्त्यस्य रेफस्य रा इत्यादेशो भवति । आत्त्वापवादः ॥ गिरा । धुरा । पुरा ॥ १६ ॥
क्षुधो हा ॥ ८।१।१७॥ क्षुधशब्दस्यान्त्यव्यञ्जनस्य हादेशो भवति ।। छुहा ॥ १७ ॥
शरदादेत् ॥ ८।१ । १८ ।। शरदादेरन्त्यव्यञ्जनस्य अत् भवति ॥ शरद् । सरओ ॥ भिषक् । भिसओ ॥ १८ ॥
दिक्-प्रावृषोः सः॥ ८।१ । १९ ॥ एतयोरन्त्यव्यञ्जनस्य सो भवति ॥ दिसा । पाउसो ॥ १९ ॥