________________
सू. ८-१-८] स्वोपज्ञवृत्तिसहितम्
मयरद्धय-सर-धोरणि-धारा-छेअ व्व. दीसन्ति ॥ उवमासु अपज्जत्तेभ-कळम-दन्तावहासमूरुजुअं । तं चेव मलिअ-बिस-दण्ड-विरसमालक्खिमो एण्हि ।।
अहो अच्छरिअं ॥ एदोतोरिति किम् । अत्थालोअण-तरला इयर-कईणं भमन्ति बुद्धीओ। अत्थ च्चेअ निरारम्भमेन्ति हिअयं कइन्दाणं ॥ ७ ॥
स्वरस्योद्धत्ते ॥८॥१८॥ व्यञ्जनसंपृक्तः स्वरो व्यञ्जने लुप्ते योऽवशिष्यते स उद्वृत्त इहोच्यते । स्वरस्य उद्वृत्ते स्वरे परे संधिर्न भवति ॥
विससिजन्त-महा-पसु-दसण-संभम-परोप्परारूढा।
गयणे च्चिय गन्धउडिं कुणन्ति तुह कउल-णारीओ ॥ निसा-अरो। निसि-अरो रयणी-अरो। मणुअत्तं ॥ बहुलाधिकारात् क्वचिद् विकल्पः । कुम्भ-आरो कुम्भारो। सु-उरिसो सूरिसो ॥ क्वचित् संधिरेव । सालाहणो । चक्काओ ॥ अत एव प्रतिषेधात् समासेऽपि स्वरस्य संघौ भिन्नपदत्वम् ॥८॥
त्यादेः॥८॥१९॥ तिबादीनां स्वरस्य स्वरे परे सन्धिर्न भवति ॥ भवति इह । होइ इह ॥ ९॥
लुक् ॥८।१।१०॥ स्वरस्य स्वरे परे बहुलं लग्. भवति ॥ त्रिदशेशः । तिअसीसो ॥ निःश्वासोच्छ्रासौ । नीसासूसासा ॥ १० ॥
अन्त्यव्यञ्जनस्य ॥८।११११॥ शब्दानां यद् अन्त्यव्यञ्जनं तस्य लुग् भवति । जाव । ताव । जसो। तमो । जम्मो ॥ समासे तु वाक्यविभक्त्यपेक्षायाम् अन्त्यत्वम् अनन्त्यत्वं च । तेनोभयमपि भवति । सद्भिक्षुः । सभिक्खू । सज्जनः । सज्जणो ॥ एतद्गुणाः । एअ-गुणा ॥ तद्गुणाः । तग्गुणा ॥ ११ ॥