________________
प्राकृतव्याकरणम् [सू. ८-१-२१८
__ दंश-दहोः ८।१।२१८ ॥ अनयोर्धात्वोर्दस्य डो भवति ॥ डसइ । डहइ ॥ २१८ ॥
संख्या -गद्गदे रः ॥ ८।१।२१९ ॥ संख्यावाचिनि गद्गदशब्दे च दस्य रो भवति ॥ एआरह । बारह । तेरह । गग्गरं ॥ अनादेरित्येव । ते दस ॥ असंयुक्तस्येत्येव ॥ चउद्दह
कदल्यामद्रुमे ॥ ८।१।२२० ॥ कदलीशब्दे अद्रुमवाचिनि दस्य रो भवति ॥ करली ॥ अद्रुम इति किम् । कयली । केली ॥ २२० ॥
__ प्रदीपि-दोहदे लः ॥ ८।१।२२१ ॥ प्रपूर्वे दीप्यतौ धातौ दोहदशब्दे च दस्य लो भवति ॥ पलीवेइ । पलित्तं । दोहलो ॥ २२१ ॥
कदम्बे वा ॥ ८।१।२२२ ॥ कदम्बशब्दे दस्य लो वा भवति ॥ कलम्बो कयम्बो ॥ २२२ ॥
दीपो धो वा ॥ ८।१।२२३ ॥ दीप्यतौ दस्य धो वा भवति ॥ धिप्पइ । दिप्पइ ॥ २२३ ॥
। कदर्थिते वः ॥ ८॥१॥२२४॥ कदर्थिते दस्य वो भवति ॥ कवट्टिओ ॥ २२४ ॥
ककुदे हः॥ ८॥१२२५ ॥ ककुदे दस्य हो भवति ॥ कउहं ॥ २२५ ॥
निषधे धो ढः॥ ८॥१२२२६ ॥ निषधे धस्य ढो भवति ॥ निसढो ॥ २२६ ॥
वौषधे ॥८।१ । २२७॥ औषधे धस्य ढो वा भवति । ओसढं । ओसहं ॥ २२७ ॥
नो णः ॥ ८॥१।२२८ ॥ स्वरात्परस्यासंयुक्तस्यानादेर्नस्य णो भवति ॥ कणयं । मयणो । वयणं ।