SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ प्राकृतव्याकरणम् [सू. ८-१-२०७ करइ । पहुडि । पाहुडं । वावडो । पडाया । बहेडओ । हरडई । मडयं ॥ आर्षे । दुप्कृतम् । दुक्कडं ॥ सुकृतम् । सुकडं ॥ आहृतम् । आहडं ॥ अवहृतम् । अवहडं । इत्यादि ॥ प्राय इत्येव । प्रतिसमयम् । पइसमयं । प्रतीपम् । पईवं ॥ संप्रति । संपइ ॥ प्रतिष्ठानम् । पइट्ठाणं ॥ प्रतिष्ठा । पइट्ठा ॥ प्रतिज्ञा । पइण्णा ॥ प्रति । प्रभृति । प्राभृत । व्याप्त । पताका । बिभीतक । हरीतकी । मृतक । इत्यादि ॥ २०६ ॥ इत्वे वेतसे ।। ८ । १ । २०७ ॥ वेतसे तस्य डो भवति इत्वे सति ॥ वेडिसो ॥ इत्व इति किम् । वेअसो ॥ 'इ: स्वमादौ' (८-१-४६) इति इकारो न भवति इत्व इति व्यावृत्तिबलात् ॥ २०७ ॥ गर्भितातिमुक्तके णः ॥ ८ । १ । २०८ ॥ अनयोस्तस्य णो भवति ॥ गम्भिणो । अणिउँतयं ॥ क्वचिन्न भवत्यपि । अइमुत्तयं ॥ कथम् एरावणो । ऐरावणशब्दस्य । एरावओ इति तु ऐरावतस्य ॥ २०८ ॥ रुदिते दिना प्णः॥८।१ । २०९ ॥ रुदिते दिना सह तस्य द्विरुक्तो णो भवति ॥ रुण्णं ॥ अत्र केचिद् ऋत्वादिषु द इत्यारब्धवन्तः स तु शौरसेनीमागधीविषय एव दृश्यते इति नोच्यते । प्राकृते हि । ऋतुः । रिऊ । उऊ ॥ रजतम् । रययं ॥ एतद् । एअं ॥ गतः । गओ ॥ आगतः । आगओ ॥ सांप्रतम् । संपयं ॥ यतः । जओ ॥ ततः । तओ ॥ कृतम् । कथं ॥ हतम् । हयं ॥ हताशः। हयासो ॥ श्रुतः । सुओ ॥ आकृतिः । आकिई ॥ निर्वृतः । निव्वुओ ॥ तातः । ताओ ॥ कतरः । कयरो । द्वितीयः। दुइओ । इत्यादयः प्रयोगा भवन्ति । न पुनः उदू रयदमित्यादि ॥ क्वचित् भावेपि 'व्यत्ययश्च । (८-४-४४७ ) इत्वे सिद्धम् ॥ दिही इत्येतदर्थं तु 'धृतेर्दिहिः । (२-१३१ ) इति वक्ष्यामः ॥ २०९ ।।
SR No.010651
Book TitlePrakrit Vyakaranam
Original Sutra AuthorHemchandracharya
AuthorParshuram Sharma
PublisherMotilal Laghaji
Publication Year
Total Pages343
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy