________________
प्राकृतव्याकरणम् [सू. ८-१-१३५ हरं । पिउ-हरं । माउ-सिआ । पिउ-सिआ । पिउ-वणं । पिउ-वई ॥१३४॥
मातुरिद्वा ॥ ८।१।१३५ ॥ ___ मातशब्दस्य गौणस्य ऋत इद् वा भवति ॥ माइ-हरं । माउ-हरं ॥ क्वचिदगौणस्यापि । माईणं ॥ १३५ ॥
उदोन्मृषि ॥ ८।१।१३६ ॥ मृषाशब्दे ऋत उत् ऊत् ओच्च भवति ॥ मुसा । मूसा । मोसा । मुसा-वाओ । मूसा-बाओ । मोसा-वाओ ॥ १३६ ॥ ___ इदुतौ वृष्ट-वृष्टि-पृथङ्-मृदङ्ग नप्तृके ।। ८।१।१३७ ।।
एषु ऋत इकारोकारौ भवतः ॥ विट्ठो बुढो । विट्ठी बुट्ठी । पिहं पुहं । मिइङ्गो मुइङ्गो । नत्तिओ नत्तुओ ॥ १३७ ॥
वा बृहस्पतौ ॥ ८।१।१३८ ॥ बृहस्पतिशद्वे ऋत इदुतौ वा भवतः ॥ विहप्फई बुहप्फई । पक्षे । बहप्फई ॥ १३८ ॥
इदेदोवृन्ते ॥ ८।१।१३९ ॥ वृन्तशब्दे ऋत इत् एत् ओच्च भवन्ति ॥ विण्टं वेण्टं वोण्टं ॥१३९॥
रिः केवलस्य ।।८।१।१४०॥ केवलस्य व्यञ्जनेनासंपृक्तस्य ऋतो रिरादेशो भवति ॥ रिद्धी रिच्छो ।। ॥ १४ ॥
ऋणवृषभवृषौ वा ८।१।।१४१ ॥ ऋणऋजुऋषभऋतुऋषिषु ऋतो रिर्वा भवति ॥ रिणं अणं । रिज्जू उज्जू । रिसहो उसहो । रिऊ उऊ । रिसी इसी ॥ १४१॥
दृशः विप्-टक्सकः ॥ ८।१।१४२ ॥ विप् टक् सक् इत्येतदन्तस्य दृशेर्धातोर्वतो रिरादेशो भवति ॥ सहक् । सरि-वण्णो । सरि-रूवो । सरि-बन्दीणं ॥ सदृशः । सरिसो॥ सदृक्षः । सरिच्छो ॥ एवम् एआरिसो । भवारिसो । जारिसो । तारिसो । केरिसो । एरिसो। अन्नारिसो । अम्हारिसो । तुम्हारिसो । टक्सक्साहच