________________
सू. ८-४-१८०] स्त्रोपज्ञवृत्तिसहितम्
त्वरस्तुवर-जअडौ ॥ ८।४। १७० ॥ त्वरतरेतावादेशौ भवतः ॥ तुवरह । जअडइ । तुवरन्तो । जअडन्तो ॥१७०॥
त्यादिशत्रोस्तूरः ॥ ८।४।१७१ ।। .. त्वरतेस्त्यादौ शतरि च तूर इत्यादेशो भवति । तूरइ । तूरन्तो ॥१७१॥
तुरोत्यादौ ॥ ८।४ । १७२ ।। त्वरोत्यादौ तुर आदेशो भवति ॥ तुरिओ । तुरन्तो ॥ १७२॥ क्षरः खिर-झर-पज्झर-पञ्चड-णिचळ-णिटुआः ॥८।४ १७३ ॥
क्षरेरेते षड् आदेशा भवन्ति ॥ खिरइ । झरइ । पज्झरइ । पञ्चडइ । णिञ्चलइ । णिट्टअइ ॥ १७३ ॥
उच्छल उत्थल्लः ॥ ८।४। १७४॥ उच्छलतेरुत्थल्ल इत्यादेशो भवति ॥ उत्थल्लइ ॥ १७४ ॥
विगलेस्थिप्प-णिटुहौ ॥ ८।३ । १७५ ॥ विगलतेरेतावादेशौ वा भवतः ॥ थिप्प३ । णिटुहइ । विगलइ ॥ १७५ ।।
दलि-वल्योर्विसट्ट-वम्फो ॥ ८।४ । १७६ ॥ दलेर्वलेश्च यथासंख्यं विसट्ट वम्फ इत्यादेशौ वा भवतः ॥ विसट्टइ । वम्फइ । पक्षे । दलइ । वलइ ॥ १७६ ॥
. भ्रंशः फिड-फिट्ट-कुड-कुट्ट-चुक्क-भुल्लाः ॥ ८।४। १७७॥
ग्रंशेरेते षडादेशा वा भवन्ति ॥ फिंड । फिट्टई । फुडइ फुट्टइ। चुक्कइ । भुल्लइ । पक्षे भंसइ ॥ १७७ ॥ नशेर्णिरणास-णिवहावसंह-पडिसा-सेहावहराः ॥८।४।१७८॥
नशेरेते षडादेशा वा भवन्ति ॥ णिरणासइ । णिवहइ । अवसेहइ । पडिसाइ । सेहइ । अवहरइ । पक्षे । नस्सइ ॥ १७८ ॥
___ अवात्काशो वासः ॥ ८।४। १७९ ।। अवात्परस्य काशो वास इत्यादेशो भवति ॥ ओवासइ ॥ १७९॥
संदिशेरप्याहः ॥८।४। १८० ॥ संदिशतेरप्पाह इत्यादेशो वा भवति ॥ अप्पाहई । संदिसइ ।। १८०॥