________________
सर्गः] ' धर्माभ्युदयमहाकाव्यम् । यथा यथा हयो वृद्धि, स प्रयाति तथा तथा । खुरैर्नृपविपद्वल्लिमूलानि खनति ध्रुवम् ॥६१० ॥ सह स्वराज्यसम्पत्त्या, विपक्षविपदा समम् । सर्वाङ्गाणि तुरङ्गोऽयं, तुङ्गच्छविरवीवृधत् ॥६११ ॥ निनाय नीरपानाय, हयनायकमन्वहम् । स श्रेष्ठी स्वयमारुह्य, रक्षादक्षः सरोवरे ॥ ६१२ ॥ वलमानोऽन्तरा तीर्थनाथं वाहस्थितस्ततः। त्रिः स प्रदक्षिणीकृत्य, नत्वाऽभ्येति निकेतनम् ॥ ६१३ ॥ निजावास-जिनावास-जलावासपथत्रयम् । मुक्त्वा हयो न जानाति, मार्गमन्यं पुरान्तरे ॥६१४ ॥
अथारिपृथिवीनाथाश्चेतस्येतदचिन्तयन् । कुतोऽस्य वर्धते राज्यमस्माकं क्षीयते पुनः। ॥ ६१५ ॥ अथाकथ्यत सर्वेषां, तेषां गूढचरैश्चरैः । वाहरत्नस्य माहात्म्यं, तस्य तेजोमयाकृतेः ॥६१६ ।। भूनाथस्याथ कस्यापि, मन्त्री प्राह ससाहसः । तं वाहमहमानेण्ये, नचिराञ्चौर्यचर्यया ॥६१७ ॥ इति प्रतिज्ञां स प्राशंमन्यः कृत्वा नृपाज्ञया । श्रावकारम्भदम्भेन, प्रचचाल घनघनैः ॥ ६१८ ।। श्रीवसन्तपुरे तत्र, गत्वा श्रावकतत्त्ववित् । वक्रेच्छो रचयाञ्चक्रे, स चैत्यपरिपाटिकाम् ॥६१९ ॥ स श्रद्धावानिव श्राद्धसद्मसु च्छद्मसुस्थितः । जिनार्चाभ्यर्चनं कुर्वन् , जिनदासगृहं गतः ॥ ६२० ॥ तन्वानस्तीर्थनाथस्य, पूजामथ यथाविधि । स्वावासे जिनदासेन, सानन्देनाभिनन्दितः ॥ ६२१ ॥ अथ भक्तिपथन्यस्तमनाः सम्मानतो मतः । तं साधर्मिकवात्सल्याजिनदासोऽवदन्मुदा ॥ ६२२ ॥ अद्यानवद्यजैनेन्द्रधर्मसम्बन्धवान्धव ।। भोजनेन विधेहि त्वं, मम धाग्नि पवित्रताम् ॥ ६२३ ।। विनते जिनदासेऽस्मिन्नतिभक्त्या वदत्यपि । अनिच्छन्निव तस्थौ स, कार्य पूर्णमिति स्मरन् ।। ६२४ ॥ अथासौ गाढमभ्यर्थ्य, भोजितो भक्तिपूर्वकम् । स्वावासे जिनदासेन, निशायामपि वासितः ॥ ६२५ ॥ केनापि सुहृदा श्रेष्ठी, जिनदासोऽप्यनीयत । महोत्सवजुषा सौधे, निजे स्थापयितुं निशाम् ॥ ६२६ ॥ असावथ निशीथिन्यामुत्थितः कूटधार्मिकः । आशु तं वाहमारुह्य, निःससार त्वरातुरः ॥ ६२७ ।। सोऽन्यतः प्रेर्यमाणोऽपि, जगाम सरसीं हयः। पीत्वाऽम्बु वलितः प्राप्तो, यत्राऽऽस्ते जिनमन्दिरम् ॥ ६२८॥ प्रदक्षिणात्रयं तत्र, दत्त्वा पुनरगाद् गृहम् । अत्यर्थ नुद्यमानोऽपि, स वाजी नान्यतो ययौ ॥ ६२९ ॥ ततो विभातशेषायां, विभावाँ भयकभूः । मुक्त्वा वाहवरं धूर्तश्चपलः स पलायितः ॥ ६३० ।। अथाखिलनिशावाहखिन्नो वाहशिरोमणिः । विवेश मन्दुरामिन्दुः, प्रत्यग्गिरिगुहामिव ॥ ६३१ ॥ अथ प्रातः समायातः, स मायातरुपावकः । जिनदासो निजं धाम, धामनाथ इवाम्बरम् ॥ ६३२ ॥ अथ पृष्टो निशावृत्तं, वृत्तान्तं वाजिनो जनैः। तद्धीतो मन्दुरां गत्वा, श्रेष्ठी हृष्टोऽश्ववीक्षणात् ॥ ६३३ ।। वाजिनं तमगन्तारमगं तारमयं यथा । सोल्लासमर्चयामास, जिनदासः प्रमोदवान् ॥ ६३४ ॥ रत्नत्रयत्रिमागी तद् , भवाहप्रेरितोऽत्यजन् । अहं पूज्यो भविष्यामि, महतां स हयो यथा ॥ ६३५ ।।
कनकधीरथ पाह, स्वामिन्नित्यातुरः स्फुरन् । पुण्यहीन इव प्रौढपुण्योऽपि परितप्यसे ॥६३६॥
पुण्यहीनाख्यानकम्
.
हंसाभवैजयन्तीभिओजयन्ती नभोनदीम् । जयन्ती स्वःपुरीमस्ति, जयन्तीति पुरी स्मृता ॥ ६३७ ।।
१ढतरै खता. पाता० ॥ २'तो नतः खता० पाना० ॥ ३ 'स्मिन्निति गंता० पाना० ॥ ४ "मार्गात् त° पाता० ॥ ५ तुरं स्फु पाता. ॥ ६ री श्रुता संता० पाता० ॥