________________
सर्गः] - .
५५
धर्माभ्युदयमहाकाव्यम्। ततश्च विहृतेऽन्यत्र, जगत्रितयनेतरि । शुचाऽमुचदयं शैलः, शालादिमणिमण्डनम् ॥१०८ ॥ तत्रादिगणभृद् दुर्गे, श्रीजिनेशनिदेशतः । सहितः साधुभिस्तन्त्रैस्तन्त्रपाल इव स्थितः ॥ १०९॥ तदुवाच मुदा साधूनग्रणीगणधारिणाम् । मनःसंवेगसंवेगगौरगौरवया गिरा ॥११० ॥ तप:श्रीदूतिकाक्कृप्तसिद्धिसम्बन्धकाङ्क्षिणाम् । कोऽपि केवलसङ्केतनिकेतनमयं गिरिः , ॥१११ ॥ अस्मिन्नाकारणं मुक्तेस्तद्वः केवलमेष्यति । तदात्मा तपसा शुद्धो, वास्यतां ध्यानसौरभात् ॥ ११२ ॥ इति संवेगसश्रीकपुण्डरीकगिरा चिरात् । सर्वेऽप्यालोचनारोचमाना मानादिमाथिनः ॥११३ ॥ क्षणक्षामितनिःशेषजन्तवोऽनन्तबोधयः । कर्मदानवभेदाय, साधवो माधवोपमाः ॥११४ ॥ गृहीतानशनाः शुक्लध्याननिधीतकल्मषाः । बभूव भूभृतस्तस्य, ते लीलामौलिमण्डनम् ॥ ११५ ॥
॥ विशेषकम् ॥ गणभृन्मुक्तिनिःश्रेणि, क्षपकश्रेणिमाश्रितः । तैः सार्द्ध साधुभिर्लेभे, द्वादशी गुणभूमिकाम् ॥ ११६ ॥ मौसान्ते चैत्रराकायामथ प्रथमतोऽभवत् । केवलं पुण्डरीकस्य, ततोऽन्येषां तपोभृताम् ॥११७ ॥ अथैतान मुक्तिवनिता, नितान्तमनुरागिणी । निर्मुक्तकर्मावरणानात्मसादकृत स्वयम् ॥११८ ॥ गीर्वाणास्तत्र निर्वाणगमनोत्सवमुत्सुकाः । आगत्य चक्रिरे तेषां, हर्षसोत्कर्षचेतसः ॥११९ ॥ तदेष प्रथमं तीर्थ, शत्रुञ्जयधराधरः । बभूव पुण्डरीकादिसाधुसिद्धिनिबन्धनम् ॥१२० ॥ तत्र रत्नमयं चैत्यमुदितं मुदितो व्यधात् । उदयादिशिरश्चुम्बिरविबिम्बविडम्बकम् ॥१२१ ॥ जितस्तेनैव चैत्येन, प्रभया सुरभूधरः । प्रस्वेदबिन्दुसन्दोहं, धत्ते तारावलिच्छलात् ॥ १२२ ॥ पुण्डरीकमभोर्मूर्त्या, युतामन नृपो व्यधात् । युगादिजिननाथस्य, प्रतिमां मतिमानसौ ॥ १२३ ॥ विहरन्नथ देशेषु, विविधेषु जगद्गुरुः । भविनां मुक्तिमार्गाय, धर्म युग्यमिवार्पयन् ॥ १२४ ॥ पूर्वलक्षं परिक्षिप्य, दीक्षाकालात् त्रिकालवित् । निर्वाणकालं विज्ञाय, स्पष्टमष्टापदं ययौ ॥ १२५ ॥
॥ युग्मम् ॥ अष्टापदाद्रिमारूढः, परीतः स्फटिकांशुभिः । शुशुमे स विभुः शुभैः, सिद्धेरालोकजैरिव ॥ १२६ ॥ प्रत्यपद्यत साधूनां, सहर्दशभिर्युतः । चतुर्दशतपोयोगात् , पादपोपगमं जिनः ॥ १२७ ।। तथाऽवस्थितमद्रीन्द्रपालो व्यालोक्य तं प्रभुस् । गत्वा विज्ञपयामास, भरतं भूमिवासवम् ॥ १२८ ॥ श्रुत्वा चतुर्दशाहारपरिहारं जगद्गुरोः । न चतुर्दशभिर्भेजे, रत्नैरपि नृपः सुखम् ॥ १२९ ॥ ततश्चरणचारेण, चचाल भरतेश्वरः । परिवारैर्दिशो रुन्धन्नष्टावष्टापदं प्रति
॥ १३०॥ अनुयाताऽपि वातेन, वेगादचलचीवरः । आजगाम गिरेमौलिमाकृष्टो मनसेव सः ॥ १३१ ।। अप्रासपूर्वावाजन्म, चरणौ प्राप्य चक्रिणः । मार्गभूर्दुभंगेव स्त्री, रक्ताऽभूत् क्षरताऽसृजा ॥ १३२ ॥ अशक्तेऽपि सहाऽऽगन्तुं, छत्रधारिणि चक्रिणः । अपनिन्ये मनस्तापस्तपनातपवेदनाम् ॥ १३३ ॥ अथाष्टापदमारूढस्तं तथाऽवस्थितं प्रभुम् । अपश्यत् प्रसभोन्मीलद्वाष्पाविलविलोचनः ॥१३४ ॥ सप्रणम्याभवद् यावदुपास्तिन्यस्तमानसः। अपश्यत् तावदायातान् , सर्वान् गीर्वाणनायकान् ॥ १३५ ॥ भक्ति-शोकभराभोगभङ्गुरीकृतकन्धरः । तैः समं शमिनामीशमुपासामासिवानसौ ॥१३६ ॥
१ निधूत खंता० पाता. ॥ २ अथ प्रथममुत्पेदे, पुण्डरीकस्य केवलम् । मासान्ते चत्रराकायां, ततोऽन्येषां तपोभृताम् ॥ ११७ ॥ इति रूपेणायं श्लोक. पाता० उपलभ्यते ।