________________
[पञ्चमः
सङ्घपतिचरितापरनामक . यथोचितमथो चक्रुर्मामेत्य भवभीरवः । जनास्ते यत्प्रवृत्तिः स्याद् , यथा स्वार्थमिहार्थिनाम् ॥ ७८ ॥ एवं विहरमाणोऽयमस्माभिः सह सम्प्रति । इतः स भवतः पुत्रो, धर्मध्यानमना मुनिः ॥ ७९ ॥ सुरा-सुरैशिरःश्रेणिमणिभाहरितक्रमः । भावी मम समानश्रीश्चतुर्विशो जिनेश्वरः ॥ ८० ॥ युग्मम् ।। भरतोऽथ समुत्थाय, मरीचिं निकषा गतः । एनं प्रदक्षिणीकृत्य, नमश्चक्रे कृताञ्जलिः - ॥ ८१ ॥ उक्तवाँश्च न ते पारिवाज्यमेतन्न जन्म च । किन्तु यत् तीर्थकृत्त्वं ते, भावि तद् वन्द्यते मया ॥ ८२ ॥ भगवन्तमथो नत्वा, गतवान् भरतेश्वरः । विजहार च तीर्थेशोऽन्यतो वायुरिवास्खलन् ॥ ८३ ॥ अथ लोकस्य दुःकर्मशत्रूच्छेदाय तीर्थकृत् । पुनानः पृथिवीं पादैः, शत्रुञ्जयगिरि ययौ ॥ ८॥ तं विलोक्य त्रिलोक्यन्तर्द्धर्मस्योचैः क्षमाभृतः । दुर्गप्रायगिरि मेने, मुनीन्द्रो निरुपद्रवम्। ॥ ५ ॥ अथ प्रथमसर्वज्ञः, स विज्ञाय जगद्गुरुः । नगेन्द्रमिह माहात्म्यनिधानमिव पिण्डितम् ॥ ८६ ।। तमारोहन्महामोहद्रोहाय परमेश्वरः । शत्रुवित्रासनायेव, कुञ्जर वीरकुञ्जरः . ॥८७ ॥ युग्मम् ॥ मुनयः पुण्डरीकाद्याः, सहैवाऽऽरुरुहुर्गिरिम् । सोपानमिव निर्वाणसौधस्यात्यन्तमुत्सुकाः ॥८८॥ बभौ स तं समारूढः, शैलं त्रैलोक्यनायकः । मुक्तिद्वीपमिव प्राप्तस्तीर्खा संसारवारिधिम् ॥ ८९ ॥ पिङ्गः प्रभोः प्रभाभारैः, कीर्णः कुसुमवृष्टिभिः । ताराभाराकुलस्वर्गशैललीलामगाद् गिरिः ॥९॥ पवित्रयति मूर्धानं, तदा त्रिजगतीगुरौ । प्रभावप्रणमद्वृक्षमुजागर्नृत्यति स्म सः ॥९१ ॥ प्रभुदृष्ट्या सुधावृष्ट्या, पुनः प्रारूढपक्षतिः । अभितः स समारोहल्लोललोकनिभादभात् ।। ॥ ९२ ॥ विबुधास्त्रिविधास्तूर्णं, देवं सेवितुमाययुः । स्वस्थानस्था निरायासं, ज्योतिएकास्तु सिषेविरे ॥ ९३ ॥ . जन्तूनां पापभीतानां, दुर्गभूतस्य भूभृतः । मौलौ वप्रत्रयं रत्न-स्वर्ण-रूप्यैः सुरा व्यधुः ॥ ९४ ॥ प्राकारद्वारदम्भेन, सज्जितानि कुतूहलात् । दिग्वधूभिर्मुखानीव, स्मेराणि जिनमीक्षितुम् ॥९५॥ सर्वतः पर्वतेष्वेकः, पवित्रोऽहमिति ब्रुवन् । अशोकानोकहव्याजादयमूर्द्ध व्यधाद् भुजम् ॥९६ ॥ माहात्म्येन महीधेषु, गिरिर्गुरुरसाविति । रत्नसिंहासनव्याजादस्योष्णीषं व्यधुः सुराः ॥९७ ।। चतुर्मूर्तिभृतस्तत्र, स्थितस्याऽऽस्येन्दुभिर्विभोः । स जज्ञे पर्वतः पूर्वः, सर्वासामप्यसौ दिशाम् ॥ ९८ ।। - तद्देशनां समारेभे, स मारेभैककेसरी । विभुविकलोकानां, कर्णामृतकिरा गिरा ॥ ९९ ॥ महीरुहेषु कल्पनुः, स्वयम्भूरमणोऽब्धिषु । ज्योतिष्केषु रविः सोऽयं, शैलः शैलेषु शस्यते ॥ १० ॥ तुङ्गतां सर्वतः सर्वपर्वतेषु दधात्ययम् । यन्मौलिवर्तिनां हस्तप्राप्यं मुक्तिलताफलम् ॥१०१॥ जलकान्तमणिश्रेणिमयवत् प्रतिभात्ययम् । विघटन्ते झटित्येव, भवाब्धेर्यत्र वीचयः । ॥ १०२ ॥ . नृणामिहाधिरूढाना, शुक्लध्यानविभानिभात् । हस्तावलम्बनं दत्ते, मुक्तिश्रीः कुन्दसुन्दरा ॥ १०३ ॥ भ्रूण-ब्रह्मर्षिघातादिपातकान्यपि तत्क्षणात् । व्यपोहत्यस्य महिमा, हिमानीवाहिमत्विषः ॥१०॥ व्यक्तं विमुक्तकाठिन्यमिह क्रूरात्मनां मनः । प्रयाति खादिराङ्गारकुण्डेऽयस्पिण्डवद् द्रवम् ॥ १०५ ।। '. ' अतः शमसुधाकुण्ड !, पुण्डरीक ! त्वयाऽऽस्यताम् । '' -'अस्मिन् धराधरे सिद्धिलोलुमैः साधुभिः समम्
॥१०६ ॥ . इत्यासाद्य प्रभोराज्ञा, पादौ नत्वाऽत्र भूधरे । अस्थायि पुण्डरीकेण, मुनिहंसैः सहामलैः ॥ १० ॥
१ रनरश्रेणि' वताः ॥ २ तमद्रिमिह पाता० ॥ ३ मिवोत्तीर्णस्ती खंता० ॥ ४ °ऽद्रिषु वता० ॥