________________
५२
सङ्घपतिचरितापरनामकं
। [पञ्चमः भ्रातरुत्तर मातङ्गादित्याकये तयोर्वचः । चिन्ताचान्तमतिर्धान्तस्तस्थिवान् स मुनिश्चिरम् ॥ २४ ॥ शब्दोऽयं नियतं ब्राह्मी-सुन्दयोः श्रुतिसुन्दरः। भाषेते चानृतं नैते, न चारूढोऽस्मि हस्तिनम् ॥ २५ ॥
विकल्पं कल्पयन्नेव, दध्यौ वन्दे लघून न यत् ।
मानोऽयमेव मे हस्ती, तत्राऽऽरूढोऽस्मि धिग् ! जडः ॥२६॥ सत्यं मत्वेति तातेन, दयां मयि वितन्वता । व्रतिन्यौ प्रतिबोधाय, प्रेषिते शीलसद्मनी ॥२७॥ केवलज्ञानिनो बन्धून्', लघूनपि गुणाधिकान् । करिष्ये तदहं मूर्ति, पुष्पस्तोमानिवामलान् ॥ २८ ॥ 'ध्यात्वेति पादमुद्यम्य, भिन्ने मानमतङ्गजे । अलाभि मुनिसिंहेन, केवलं मौक्तिकं फलम् ॥२९॥ 'मानेऽथ सर्वथा मुक्ते, स्फुरन्त्या केवलश्रिया । आश्लिष्टस्य तदा तस्य, विलीनं मनसा रसात् ॥ ३० ॥ दिवि दुन्दुभयो नेदुरभवन् पुष्पवृष्टयः । प्राप्तास्तं वन्दितुं भक्तिभासुराश्च सुरा-ऽसुराः ॥ ३१ ॥ अथो परिवृतः श्रीमान् , सुरसार्थैर्महामुनिः । जगदीशस्य समवसरणं प्राप पापभित् ॥ ३२ ॥ प्रभुं प्रदक्षिणीकृत्य, गत्वा केवलिपर्षदि । उपाविक्षन्मुनिर्मुक्तालतायामिव नायकः ॥३३॥
आरुरोहान्यदा स्वामी, स्पष्टमष्टापदाचलम् । समं मुनीन्द्रैः पूर्वादि, नक्षत्रैरिव चन्द्रमाः ॥ ३४ ॥ त्रिविष्टपसदस्तत्र, विदधुर्देशनासदः । प्रभुश्चतुर्मुखीभूय, तस्मिन् धर्ममुपादिशत् ॥३५ ।। ततः समं समायाती, भरतेश-सुरेश्वरौ । निन्यतुः कर्णपूरत्वं, विभोर्वचनपल्लवान् ॥३६ ॥ देशनान्ते ततश्चक्री, बन्धूनालोक्य वत्सलः । तेषां भोगविभागाय, जिनराजं व्यजिज्ञपत् ॥ ३७॥ अथाऽऽदिजिनाधीशो, भरतक्ष्मापतिं प्रति । भोगानभिलषन्त्येते, किमभङ्गुरसङ्गराः ॥ ३८ ॥ आनाय्य न्याय्यवित् क्षोणीपती रसवतीमथ । हेतवे निजबन्धूनामन्धूनां प्रशमाम्भसः ॥ ३९ ॥ ., विज्ञो विज्ञपयामास, सानन्दो नाभिनन्दनम् ।
__ भोजनायाऽऽदिश स्वामिन् !, शमिनो बान्धवानिति ॥४०॥ युग्मम् ।। आदिदेशाथ तीर्थेशः, कारितं कल्पते न यत् । भुञ्जते तत् कुतो ज्ञानबन्धुरास्तव बन्धवः । ॥४१॥ पुनर्विज्ञपयामास, नृपस्तर्हि जगत्प्रभो ! । स्वामिन्नकारितान्नाय, प्रेष्यन्तां मद्गृहानमी ॥४२॥ तमादिदेशं तीर्थेशो, यथार्थमथ पार्थिवम् । राजन् ! न कल्पते राजपिण्डः शमभृतामिति ॥४३॥ नरेन्द्रेऽस्मिन् जिनेन्द्रेण, निषिद्धे सर्वथेत्यथ । पराभवभवन्मानम्लानिश्यामलितानने ॥४४॥ माऽसौ खेदस्य पात्रं भूदित्यवेत्य मरुत्वता । अवग्रहभिदाः पृष्टः, स्पष्टमूचे जगद्गुरुः ॥१५॥
॥ युग्मम् ।। शक्रस्य चक्रिणो राज्ञः, स्थानेशस्य गुरोरिति । पञ्चधाऽवग्रहो भावात् , पञ्चानामपि पुण्यकृत् ॥ १६ ॥ अथ शक्रः प्रणम्याऽऽह, प्रभो। क्षेत्रेऽत्र भारते । मया वासाय साधूनां, प्रदत्तोऽयमवग्रहः ॥४७॥ आकर्ण्य भरतोऽपीति, प्रीतो नत्वा जगद्गुरुम् । अनुजज्ञे निवासाय, साधूनां भारती भुवम् ॥ ४८ ॥ अथापृच्छन्महीभर्त्ता, शुभर्तारं सैसम्मदः । देयं कस्यान्नमानीतमिदमेवं निवेद्यताम् । ॥४९॥'
.. ' , गुणाधिकेषु कर्तव्या, पूजेत्युक्ते बिडौजसा । । ' ', '. . . . साधून विना गुणी, कोऽस्ति, . मत्तोऽपीति व्यचिन्तयत् ॥ ५० ॥ ज्ञातं सन्तितरां सन्तः, श्रावका मद्गुणाधिकाः । तेभ्यः पूजा विधेयेति, निश्चयं भरतो व्यधात् ।। ५१॥
१ आरोहदन्य खता० ॥ २ सभासदः खंता० ॥
.