________________
स्वरान्तकी बलिङमक्रिया ॥ ३ ॥
(११)
सर्वस्मात् सर्वाभ्याम् सर्वेभ्यः । सर्वस्य सर्वयोः सर्वेषाम् । सर्वस्मिन् सर्वयोः सर्वेषु । सर्व सर्वे सर्वाणि । अन्या - दीनां पञ्चानां विशेषोऽस्ति । अन्य सि इति स्थिते ।
नोपधायाः । नस्योपधा नोपधा तस्याः नोपधायाः (५० ए०) ङितां यट् 1 स्वर० नान्तस्य शब्दस्य उपधायाः ('अन्त्यात्पूर्वं उपधा ' इति संज्ञा ) सन्धिकथितलक्षणाया दीर्घो भवति नपुंसके शौ परे पुल्लिङ्गे विवर्जितेषु पञ्चसु वचनेषु नामि च नुट्सहिते आमि परे च । यथा पञ्चानाम् । अनेन उपधाया दीर्घः । कुलं कुले कुलानि । पुनरपि द्वितीयायाम् । कुलं कुले कुलानि । साधना प्रथमावत् । तृतीयादौ देवशब्दवत् । सम्बोधने समानाद्वेर्लोपोऽवातोः । हे कुल । द्विवचने म भए हे कुले बहुवचने जस्ासोः शिः । नुमयमः । नोपधायाः । हेकुलानि 1. एवं कुलशब्दवत् । मूलफलपुष्पपत्रकुण्डकुटुम्बज्ञानधनवनान्नादयः शब्दाः साध्याः । सर्वादयोऽपि नपुंसकलिङ्गे प्रथमायां द्वितीयायां च कुलशब्दवत् । सर्वं सर्वे सर्वाणि । तृतीयादौ पुल्लिङ्गवत् । अन्यादीनां प्रथमा द्वितीयैकत्वे विशेषः । सूत्रम् ।
शूत्वन्यादेः ।
इतु अभ्यादेः । अन्यादेर्गणात्परयोः स्यमोः इतुर्भवति । 1 शकारः सर्वादेशार्थः । उकार उच्चारणार्थः । वावसाने । इति पक्षे दत्वमपि भवति । अन्यत्-अन्यद् अन्ये अन्या नि । पुनरप्येवम् । शेषं सर्ववत् । अन्यतरत् - अम्यतरद् अन्यतरे अन्यतराणि । इतरत् - इतरद् इतरे इतराणि । कतरत् - कतरद् कतरे कतराणि । कतमत्- कतमद् कतमे · कतमानि । शेषं सर्ववद्रूपम् । प्रथमादयः कुलवत् । प्रथमं प्रथमे प्रथमानि ।
शूल्वन्यादेः । श्तु (म० ए० ] साङ्के० । अन्य आदिर्यस्यासौ अन्यादि - स्तस्मात् (पं.ए.) ङितिङन्स्येत्यकारलोपः । स्रो० | नुवम् । स्वर० । अन्यादेः । अन्य, अन्यतर, इतर, कतर, कतम, इत्याद्यन्या गणान्नपुंसकलिङ्गे वर्तमानात्पक्योः स्यमोः' इतु ' इत्यादेशो भवति । शकारः सर्वादेशार्थः । ' गुरुः शिच्च सर्वस्य