________________
सारस्वते प्रथमवृत्ता। वक्तव्यः' इति न्यायात् उकार उच्चारणार्थः अनेन से स्थाने अमस्थाने च 'तु' इत्यादेशः। द्वित्वबहुसयोः कुलशब्दवत् । हेअन्यत् । तृतीयादौ सर्वादिवत् । एवम् अन्यतरत्, इतरत, कतरत, कतमत्, एतेऽपि शब्दाः साध्याः । जराया जरस् वेति। नास्ति जरा यस्य तत् अजरम् अजरसम् अजरे अजरसी अजराणि अजरांसि शेषं पुंवत् । अत्र यद्यपि क्रमेण पूर्वम् आकारान्तः सोमपाशब्दस्तदने इकारान्ता अस्थि, दधि, सक्थि, अक्षि, वारिशब्दास्तद्वदेव उकारान्ता मध्वादयस्तदने ईकारान्ता ग्रामण्यादयः तद्वदेव ऊकारान्ता यवल्वादयस्वदने अकारान्ताः कर्तृपमुखास्तदने ऐकारान्तः अतिरैशब्दस्तदने ओकारान्त उपगोशब्दस्तदने औकारान्त अतिनौशब्द इति क्रमो युज्यते । परमत्र केषुचित पुस्तकेषु क्रमवैपरीत्येन लिखितानि सन्ति । इकारान्तो नपुंसकलिङ्गोऽस्थिशब्दः । स्पमो. विषये। सूत्रम्।
नपुंसकात्स्यमोटुक् । नपुंसकलिङ्गात्परयोः स्यमो ग्भवति । अस्थि ।
नपुंसकात्स्यमोलक । नपुंसक (पं ए.) सिरन् । सवर्णे । सिच अम् च स्यमौ तयोः स्यमोः (प.द्वि.) स्पर० स्रो० । लुक्० (म० ए० ) हसेफ। नामिनोरः । अवर्णान्तवर्जानपुंसकलिङ्गात्परयोः स्पमोलक् भवति । अनेन स्य. मोर्लुक् । धौ विशेषमाह। रवणां नपुंसके धौ वा गुणो वक्तव्यः इश्च उश्च ऋश्च तेषां वणाम् । उक्तं हि । संबोधने तूशनसस्त्रिरूपं, सान्तं तथा नान्तमथाप्यदन्तम् । माध्यन्दिनिर्वष्टि
गुणं विगन्ते, नपुंसके व्याघ्रपदां वरिष्ठः ॥३१॥ इउण ऋलक। इति पाणिनीयानामिकूप्रत्याहारः।हे. ' अस्थे-हेअस्थि ।
वणां । इश्च उश्च ऋश्च स्वरः तेषां वृणां इकारोकारऋकाराणां नपुंसकलिङ्गाविषये धौ स्थाने वा गुणो वक्तव्यः । नपुंसकात् स्यमोटुंगिवि घिलोपे विहिते इकारस्य एकारो गुणः, हेशब्दस्य माक् प्रयोगः । अत्र शिष्टसंमतिमाह । उक्तंच वृद्धः। सम्बोधने इति । तुइत्यवधारणे माध्यंदिनिराचार्य उशनसः उशनस्शदस्य