________________
(१४)
सारस्व प्रथमवृचौ। . व्यः। गुरुः आदेशस्तु पुनः शिव शकारेत् आदेशः सर्वस्यैव भवति । गुरुरनेकाक्षरः 'प्रेरयङ्' इत्यादिकः । तथा शित् शकारेश्चय आदेशः स सर्वस्य आदेशिनः स्थाने भवति नत्वन्तस्प । अनेन जस्शसोः शिः। सूत्रम् ।
नुमयमः। नुम् अयमः। नपुंसकस्य नुमागमो भवति शौ परे । यम प्रत्यहारान्तस्य न भवति ।
नुमयमः । नुम् ( म० ए०) हसेपः । न यम् अयम् तस्य अयमः (प. ए.) स्वर ० । स्रो० । नपुंसकस्य नुमागमो भवति शौ परे। यम् प्रत्याहारो यस्य तस्य शब्दस्य नुमागमो न भवति । यथा अहानि चत्वारि इत्यादी।
मिदन्यात्स्वरात्परो वक्तव्यः । उकार उच्चारणार्थः। मकारः स्थाननियमार्थः । मिदन्त्यादिति । मित् मकारेत् आगमः अन्त्यात्स्वरात्परो वक्तव्यः । उकार उच्चारणार्थः । अनेन नुमागमः । सूत्रम् ।
नोपधाया। नान्तस्योपधाया दीर्घा भवति शौ परे धिवर्जितेषु पञ्चसु परेषु नामिच । नोपधाया इत्यत्र छन्दसि तु भवतीति नियमात्संधिः ॥ छन्दोवत्सूत्राणि भवन्तीति वचनात् । कुलानि । पुनरपि कुलम कुले कुलानि । शेषं देववत् । कुलेन कुलाभ्याम् कुलैः । कुलाय कुलाभ्याम् कुलेभ्यः । कुलात् कुलाभ्याम् कुलेभ्यः। कुलस्य कुलयोः कुलानाम् । कुले कुलयोः कुलेषु । हेकुल हेकुले हेकुलानि । एवं मूलफलपत्रपुष्पकुण्डकुटुम्बादयः । सर्वादीनामकारान्तानामन्यादिपञ्चशब्दव्यतिरिक्तानां प्रथमाद्वितीययोः कुलशब्दवत्प्रक्रिया । सर्व सर्वे सर्वाणि | पुनरप्येवम् । शेषं पूर्ववत्। सर्वेण सर्वाभ्याम् सर्वैः । सर्वस्मै सर्वाभ्याम् सर्वभ्यः।