________________
स्वरान्त पुंलिङ्गमकिया ॥ १ ॥
(७९) नास्ति तत्राह परः । ननु पूर्वं तृप्रत्यवद्भावं विधाय पश्चानुडागमः क्रियतां, तत्रोच्यते कृता । कार्यान्तरे कृतेऽपि प्रसङ्गः प्रयोगः प्राप्तिरस्यास्तीति कु ताकृतमसी एवंभूतो यो विधिः स नित्यः ' नित्यानित्पयोर्नित्यो विधिबैलवान् इति । एवमभिप्रायः तृप्रत्ययवद्भावे कृतेऽपि नुडागमो नित्यः । तदागमे च हसादित्वं सिद्धमेव । अतः स्वरान्तत्वाभावात् वा तृप्रत्ययान्तत्वं न किन्तु क्रोष्ट्नामित्येकमेव रूपं नुडागमः नामि सप्तम्येकवचने तृतीयास्वरादौ वेत्येकन तृप्रत्यये कृते से इत्यर् | स्वर० । क्रोष्टरि । द्वितीये उकारान्तत्वात् ङेरौ डित् टिलोपः । स्वर० क्रोष्टौ । शेषं सुकरम् । सम्बोधने अधिष्विति विशेषणात् हे क्रोष्टो समानाद्वेर्लोपो० । हेक्रोष्टारौ क्रोष्टारः । ऋकारान्ता उक्ताः । ऋकारान्ता लवर्णान्ता एकारान्ताश्च शब्दा अप्रसिद्धा अमतीताः कचित्प्रयोगो दृश्यते ' डेरक ' इत्यादौ । ऐकारान्तः सुरैशब्दः । सूत्रम् ।
I
रैस्मि । शब्दस्याकारादेशो भवति सकारभकारादौ विभक्तौ परतः । सुराः सुरायौ । स्वरादौ सर्वत्रायादेशः । सुरायः । सुरायम् सुरायौ सुरायः । सुराया सुराभ्याम् सुराभिः । सुराये सुराम्याम् सुराग्यः । सुरायः सुराभ्याम् सुराभ्यः । सुरायः सुरायोः सुरायाम् । सुरापि सुरायोः सुरासु । हेसुराः हेसुरायौ हेसुरायः । एवं शब्दः । अकारान्तः पुल्लिङ्गो गोशब्दः । गो सि इति स्थिते ।
रौस्भ । रै (ष. ए. ) साङ्के० । स्च भू च स्मू तस्मिन् स्मि (स. ए.) स्वर ० । रैशब्दस्य विभक्तिसम्बन्धिनः सकारे भकारे च परे अकारो भवति षष्ठीनिर्दिष्टस्येत्यन्त्यस्य (प्र. ए.) स्रो० । सुष्ठु शोभनो राः सुराः सुष्ठु राः द्रव्यं यस्येति वा सुराः । स्वरादौ तु ऐआय् । स्वर० । समानाभावात् अम्शसोरस्य । सोनः पुंसः । नुडामश्च न भवन्ति । ओकारान्तः पुल्लिङ्गो गोशब्दो वृषभार्थः । दशार्थवाचकः । यतः । ' दिग्दृष्टिदीधितिस्वर्गवज्रवाग्बाणवारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिर्दशधा मतः ॥ १ ॥ ' दशस्वर्थेषु गोशब्दः पुंस्त्रीलिङ्गे ज्ञेयः गम्लृ । गतौ गम् । गच्छतीति गौः । गमो डोमत्ययः ङित्त्वाट्टिलोपः । स्वर० । गो इति जावं गोशब्दस्य पञ्च विशेषः । सूत्रम् ।