________________
स्वरान्तपुंल्लिङ्गप्रक्रिया ॥१॥
(७३) वानुडागमो वकव्यः । अनेन एकत्र नुडागमः स्वर० मोनु० अन्यत्र य्वौ वैवि यकारः। स्वर । (स. ए.) सूत्रम् ।
आमंडेनियश्च । आबन्तादीबन्तानीशब्दाचोत्तरस्य डेरामादेशो भवति । सेनान्याम् सेनान्योः सेनानीषु । हेसेनानीः हेसेनान्यौ हेसेनान्यः । एवं ग्रामणीप्रभृतयः । एवमूकारान्तो यवलूशब्दः । यवलू: यवल्वौ यवल्वः । यवल्वम् यवल्वौ यवल्वः । यवल्वा यवलूभ्याम् यवलूभिः।यवल्वे यवलूभ्याम् यवलूभ्यः। यवल्वः यवलूभ्याम् यवलूभ्यः। यवल्वः यवल्वोः यवल्वाम् । यवल्वि यवल्वोः यवलुषु । हेयवलू: हेयवल्यौ हेयेवल्वः । एवं वर्षाभूपुनर्भूप्रभृतयः । संयोगपूर्वस्य तु सुश्रियो कटघुवौ । एकस्वरे तु नियो लुवौ । कारकाव्ययपूर्ववाभावे तु परमनियौ धात्वयवसंयोगपूर्वकारोकार योरेव न वी । तेन उन्यौ । न य्वौ । तेन कुधीः कुधियो इति। बहुव्रीहौ तु इयुवौ स्तः। ईकारान्तो वातप्रमीशब्दः । वातप्रमीः वातप्रम्यौ वातप्रम्यः । वातप्रमीम् वातप्रन्यो वातप्रमीन् । वातप्रम्या वातप्रमीभ्याम् वातप्र मीभिः। वातप्रम्य वातप्रमीभ्याम् वातप्रमीभ्यः।वातप्रम्यः वातप्रमीभ्याम् वातप्रमीभ्यः । वातप्रम्यः वातप्रम्योः वात प्रभ्याम् । वातप्रमी वातप्रम्योः वातप्रमीषु । हेवातप्रमीः हेवातप्रम्यौ हेवातप्रम्यः।
अमि वातप्रमीमाहुः शसि वातप्रमानिति ॥
जौ तु वातप्रमी ज्ञेयः शेष ग्रामणीवहिदुः॥ तथैवोकारान्तो हुहूशब्दः । हूहूः हूही हूबः। हूहूम हूडौ १ आम्डेः । नियः । इति पृथक् सूत्रद्वय चन्द्रिकापाठे ।
१०