________________
स्वयम्भुवा
स्वरान्तलिङ्गमक्रिया ॥१॥
(७१) सुश्रीभिः । सुश्रिये सुश्रीभ्याम् सुश्रीभ्यः। सुश्रियः सुश्रीभ्याम् सुशीभ्यः । सुश्रियः सुत्रियोः सुश्रियाम् । सुश्रियि सुश्रियोः सुश्रीषु । हेसुश्रीः हेसुश्रियौ हेसुश्रियः। तथैव सुधीशब्दः । सुष्टु ध्यायतीति सुधीः सुधियो सुधियः सुधियम् इत्यादि । एवमुकारान्तः स्वयम्भूशब्दः । स्वयं भवतीति स्वयम्भः स्वयम्भुवौ स्वयम्भुवः । स्वयम्भुवम् स्वयम्भुवौ स्वयम्भुवः । स्वयम्भुवा स्वयम्भूभ्याम् स्वयम्भूभिः। स्वयम्भुवे स्वयम्भूभ्याम् स्वयम्भूभ्यः । स्वयम्भुवः स्वयं भूभ्याम् स्वयंभूभ्यः। स्वयंभुवः स्वयम्भुवो स्वयम्भुवाम् । स्वयम्भुवि स्वयम्भुवोः स्वयम्भूषु । हेस्वयम्भूः हेस्व• म्भुवौ हेस्वयम्भुवः इत्यादि । सेनानीशब्दस्याविशेषो हसादौ तु विशेषः । सेनां नयतीति सेनानीः ।
वोरिति । ईच ऊच य्वौ तयोः वोः । इयं । उवं । स्वर० । वो (प.द्वि.) धातु (प. ए.) विति । उस्य । स्रो० । इयुत् (प.द्वि.) स्वर० । नामिनो रः। स्वर० (स. ए.) अइए । धातोः ईकारस्य स्वरे परे इय् उकारस्य च उन् । इयंस्वरे इति सूत्रात् स्वरे इत्यनुवृत्तौ सत्यां पुनः स्वरग्रहणं अम्शसोरस्य नुटामः इति निषेधार्थ विभक्तिवर्जितस्वरनिषेधार्थ च ततोऽन विभक्तिस्वर एव ग्राह्यः । तेन यमित्यादौ न इय, किन्तु इयंस्वरे इति यत्वम् । अनेन स्वरादौ इयू । स्वर० । हा पदावविशेषः। सुपि विला० । संबोधने धातुत्वान घिलोपः किन्तु स्रो। हेसुन्नी देत्रियो हेसश्रियः। एवं सुधीशब्दः । ऊकारान्तः स्वयंभूशब्दोऽप्येवमेव
वौ वा। धातोरवयवसंयोगः पूर्वी यस्मादीकारादूकारान्नास्ति तदन्तस्यानेकस्वरस्य कारकाव्ययपूर्वस्यैकस्वरस्य च धातोरीकारस्य ऊकारस्य च यकारवकारौ भवतः स्वरे परे । वीभूपुन व्यतिरिक्तभूशब्दसुधीशब्दो वर्जयित्वा वाग्रहणादियं विवक्षा । सेनान्यो सेनान्यः । सेनान्यम् सेनान्यौ
हसायम्भुवः इत्यलयम्भू