________________
(७०)
सारस्वते प्रथमवृत्तौ। स्तेन सर्वस्यैव भवति तनिवारणार्थ दिन्तस्येति । डिन् डकारेत् यः आदेशः स गुरुरपि अन्यस्यैव भवति । इकारस्य 'अय्' इत्यादेशः। नामीति दीर्घः । नोंगो। मोनु । त्रिशब्दस्य बहुवचनान्तत्वेऽपि त्रिरित्येकवचनं शब्दनिर्देशात् । अथवा प्रेरित्येकवचनशब्दनिर्देशात्समासान्तत्वे एव अयङ्आदेशः असमासान्तत्वे तु न। यथा प्रियाखयो येषां ते मियत्रयस्तेषां मियत्रयाणाम् । एवम् अतिकान्तास्त्रीन इत्यतित्रयस्तेषामतित्रीणां इत्यादौ न अयङ् (स. ब.) किला० । त्रिषु। त्रयः । का संख्या येषान्ते कति किंशब्दात् उविमत्ययः। शेषा निपात्याः कत्यादय इति सिद्धस्य कतिशब्दस्य बहुवचनान्तस्यापि जसशसोविशेषमाह । सूत्रम् ।
डतेश्च । डत्यन्तात्परयोर्जश्शसोलुक् भवति । डतेरिति । कतिशब्दात्परयोर्जस्शसोलुंग्वक्तव्यः । इतिप्रत्ययान्तादिवि वा अनेन जशशसोर्लोपः कर्तव्यः।
लुकि न तनिमित्तम् । लुकि जाते सति तन्निमित कार्य न स्यात् । कति कति कतिभिः कतिभ्यः कतिभ्यः कतीनाम् कतिषु हेकति । । ईकारान्तः पुल्लिङ्गः सुश्रीशब्दः। सुश्रीः।
लुकि न तन्निमित्तमिति । लुकि कृते सति यस्य लुक् क्रियते स एव निमित्तं कारणं यस्य ईदृशं यत्कार्य वन भवति तेन एओनसि शसीवि दीर्घत्वं च न भवति । शेष सुगमम् । कतिशब्दस्य सम्बोधनाभावः । एवं कतिसाहचर्यात् यति ततिशब्दाभ्यां परयोः जशशसोलुंग्वक्तव्यः। यति ते नाग शीर्षाणि तति ते नाग वेदना इत्युदाहरणम् । कतिशब्दस्य त्रिष्वपि लिगेषु सदृशरूपाणि। इकारान्तानुक्त्वा ईकारान्तानाह । ईकारान्तः सुश्रीशब्दः । श्रिसेवायां सुपूर्व : किएप्रत्ययः पच्छादेदीर्घः किम् सर्वापहारी लोपः । मुष्टु श्रयन्त्येनमिति मुश्रीः । किबन्तत्वाद्धातुत्वं न जहाति । शब्दत्वं च प्रतिपद्यते इति स्यादयः (म. ए.) स्रो० । सुश्रीः। द्विवचने सूत्रम् ।
वोर्धातोरियुवौ स्वरे । धातोरिकारोकारयोरियुवौ भवतः स्वरे परे। सुत्रियो सुश्रियः। सुश्रियम् सुत्रियो सुश्रियः। सुप्रिया सुश्रीभ्याम्