________________
(६८)
स्वारस्वते प्रथमवृत्ता ।
1 ।
म् पतिभिः । पत्ये पतिभ्याम् पतिभ्यः । पत्युः पतिभ्याम् पतिभ्यः । पत्युः पत्योः पत्तीनाम् । पत्यौ पत्योः पतिषु । हेपते पती पतयः ।
ऋतो ङ उः । ऋत (पं. ए. ) स्वर० । स्रो० । ङकारेण उपलक्षितो अः ङस्तस्य ङः (ष० ए०) सांके० 1 उ (म. ए.) त्रो० । सूत्रमिदं सिद्धम् । ऋकारान्तादिवि वृत्तिः कण्व्या । अनेनोभयत्राप्यकारस्यौकारः स च उकार डित्संज्ञकः कल्प्यः । डित्वाट्टिलोपः । डिति टेः । स्वर० । स्रो० । (ष. ब) लुडामः । नामि । स्वर० । मोडनुस्वारः ( स. ए. ) ढेरी डित् । इत्यौकारे कृते डित्त्वाट्टिलोपे कृते ' यदादेशस्तद्वद्भवति' इति न्यायात् ' एकदेशविकृतमनन्यवद्भवति' इति - न्यायाच्च सखिपत्योरीक् ईंगागमः ई इ यं स्वरे । शेषं हरिवत् । एवं सखिशब्दसाधनम् । पतिशब्दसाधनमाह । पतिशब्दस्य प्रथमाद्वितीययोः प्रक्रियासाधना हरिशब्दवत् । तृतीयादौ तु सामान्येन सखिशब्दवत् । पत्या पत्ये पत्युः पत्युः पत्योः पत्योः । तत्रापि विशेषमाह ।
पतिरसमास एव सखिशब्दवद्दक्तव्यः ।
षष्ठी युक्तश्छन्दसि वा । सीतायाः पतये नम इत्यादिप्रयोगदर्शनात् । ततः समस्तस्य नादयो भवन्ति । प्रजापतिना प्रजापतये इत्यादि । द्विशब्दो नित्यं द्विवचनान्तः । द्वि औ इति स्थिते ।
असमास एव । समासरहित एव पतिशब्दः सखिशब्दवत्साध्यः । ठादौ स्वरे परे समासान्तस्य च पतिशब्दस्य नादयो भवन्ति । टानाखियाम्, ङिति ङस्य, ढेरौ डित इत्यादि सूत्राणि भवन्ति । यथा प्रजानां पतिः प्रजापतिरिति तत्पुरुषेस मासे कृते द्वितीयां यावद्विशेषः तृतीयादौ तु टाना स्त्रियामित्यादिसूत्रसमुच्चयेन हरिशब्दवत्साधनीय इत्यर्थः । प्रजापतिना प्रजापतिभ्यां प्रजापतिभिः । प्रजापतये, प्रजापतेः, प्रजापतौ । धौ प्रजापते समानाद्धलोपो । धातोः । हेमजापती औयू । हेमजापतयः । ए ओ जसि । द्विशब्दो द्विसंख्यावाचकत्वात् नि द्विवचनान्त एव द्विवचनं अन्ते यस्य स द्विवचनान्तः । द्वि (म. द्वि । द्वि. द्वि । तृ. द्वि । च. द्वि. । पं.द्वि. । प. द्वि० 1 स. द्वि० )