________________
(६६) सारस्वते प्रथमवृत्तौ ।
ऐ सख्युः । संखिशब्दस्यैकारादेशो भवति धिवर्जितेषु पञ्चसु परेषु।
ऐ सख्युः । द्विपदम् । ऐ (म. ए.) साङ्के । सखि (प. ए.) ऋक् । इयं स्वरे । ऋतोडउः । टिलोपः । स्वर । स्रो० । सेधेिरितिसूत्रादधेरितिपदं ऐ सख्युरित्यत्राप्याकर्षणीयं तेन सखिशब्दस्य धिर्जितेषु पञ्चसु स्यादिषु परेषु वचनेषु ऐकारादेशो भवति ।
षष्ठीनिर्दिष्टस्यादेशस्तदन्तस्य ज्ञेयः।
__ आयादेशः । सखायौ। ' 'शत्रुवदादेशः' इति वचनात् सर्वस्यापि न कथमैकारः तत्रोच्यते षष्ठीति षष्ठया विभत्त्या निर्दिष्टः कथितः उच्चरितः 'सूत्रमध्ये यः शब्दस्तस्य प्राप्तः आदेश. स्तस्य शब्दस्यान्तस्य भवति न तु सर्वस्य यथा ऐसख्युरित्यत्र सखिशब्दस्य षष्ठ्या निर्दिष्टत्वात् सखिशब्दस्य माप्तः ऐकारादेशः सखिशब्दस्यांतो य इकारस्तस्यभवति । ननु पञ्चस्विसि ग्रहणादसौ परोऽप्येकारादेशः कथं न क्रियते तत्राह । सौ परे तु एकारादेशे कृतेऽप्यतेऽपि डादेशस्य नित्यत्वात् डा आदेश एव स्यात् नत्वैकारः। अथवा ऐ सख्युरिति सूत्रे विपरीतकरणात् सौ परे ऐकारो न कचित् । औकारादिचतुर्पु परेषु इत्येवास्ति अनेनेकारस्य ऐकारः ऐआय् । स्वर० । एवं (प्र० ब०, द्वि० ए०, द्वि०वि०) एतेष्वपि ज्ञेयम् ।
द्विवचनस्य वावा छन्दसि । द्विवचनस्यौकारच्छन्दस्याकारमापद्यते । सखाया सखायः सखायम् सखायौ सखीन ।
द्विवचनस्य वावा छन्दसि । द्विवचनस्य प्रथमाद्विवचनस्य भी इत्यस्य छन्दसि वेदे वा आ भवति । सखाया । सम्बोधने अधेरिति विशेषणादे कवचने आकारो न वत्र हरिशब्दवत् समानार्लोिपो धातोः । धौ । शेष माग्वत् (.द्वि. ब.) हरिवत् । तृतीयादौ विशेषमाह । सूत्रम् ।
सखिपत्योरी । सखिपतिशब्दयोरीगागमो भवति टाढद्धिषु परतः । दीर्घ त्वान्ना न भवति । सख्या। ऋपिप्रयोगसिद्धयर्थमाह । ' सखिपत्योरीक् । सखिश्च पतिश्च सखिपती तयोः सखिपत्योः (प.द्वि.)