________________
उणादयः ।
५७३
तपः । रज्जू रागे । असि नलोपो वाच्यः । रजते तत् रजः । रक्ष हिंसायाम् । रक्षतीति रक्षः । अर्चिरुचिशुचिहुसृपिच्छादिवदिभ्य इस् प्रत्ययो भवति । अर्चिरुची -दीप्तौ । अर्चतीति अर्चिः । गुणः । रोचिः शोचिः । हूयते इति हविः । सर्पिः। छादेरिस्मन्त्रघञ् क्विप्सु ह्रस्वो वाच्यः । छद संवरणे । चुरादिः । छादयतीति छदिः । उच्छृदिर् दीप्तिदेवनयोः । हृणचीति छर्दिः । सर्वधातुभ्यस्त्रमनौ । तनु विस्तारे । तनोति तत् तन्त्रम् । मन ज्ञाने । मन्यते इति मन्त्रः । यम उपरमे । यच्छतीति यन्त्रः । छदि संवरणे । ञ्यन्तः । छादयतीति छत्रम् । क्रियते तत्कर्म । वृञ् आच्छादने । वृणो1 तीति वर्म । मर्म दाम धर्म । छादयतीति छद्म । धनार्तिचक्षिपूव पित पिजनियजिभ्य उस् प्रत्ययो भवति । धन शब्दे । धनतीति धनुः । ऋ गतौ । गुणः अरुः । चक्षि व्यक्तायां वाचि । चष्टे इति चक्षुः । पिपर्तीति परुः । वपतीति वपुः । तपतीति तपुः | जायते इति जनुः । यजतीति यजुः । अवतूस्तृञ्तन्त्रिकण्ठिभ्य ईः | अवतीति अवीः । तरतीति तरीः । स्तृञ् आच्छादने । स्तृणोतीति स्तरीः । तन्त्रि धारणे । कण्ठ अवधारणे । तन्त्रयति वा तन्त्रयते सा तन्त्रीः । कण्ठयतीति कण्ठीः ।
वचादेरस् वचादेर्द्धातोः अस्मत्ययो भवति । वच्च् अस प्र० । (प्र० ए०) नपुंसकात्स्यमो० स्रो० वचः वचसी वचांसि । एवं मह दीप्तौ महः । उच्यते इति वचः । महाते इति महः |
सौकर्ये केलिमः । सुखेन भिद्यते तत् भिदेलिमं वा भेतुं सुकरं भिदेलिमं किं काष्ठम् । सुखेन पच्यन्ते इति पचे - लिमाः आढक्यः, वा पक्तुं सुकराः पचेलिमाः किं तन्दुलाः । सौकेय्र्ये केलिमः । सुखेन क्रियते इति सुकरं तस्य भावः सौकर्य्यं तस्मि -