________________
५७२
सारस्वते तृतीयवृत्ती
ति भावी । ईशू ऐश्वर्ये ईष्टे ऐश्वर्यं करोति इति ईश्वरः ईश् वर म० स्वर० (म०ए० ) स्रो० एवं तिष्ठतीति स्थावरः ष्ठा गतिनिवृत्तौ आदेः ष्णः स्नःस्था वरप्र० (म० ए०) स्रो० भास्वरः । इण्णशू जिसरतिभ्यः करप् । पित्त्वात्तुक् । गत्वरः इति निपातः । जयति इत्येवंशीलो जित्वरः । एति इत्येवं शीलो इत्वरः । नश्यतीत्येवंशीलो नश्वरः ।
राजादेः कन् । राजादेर्धातोः कन् प्रत्ययो भवति । राज् धन्व यु यु प्रतिदिव् वृष् तक्ष दंशू पचि षपू अशूङ् नु मह एते राजादयः । राजू दीप्तौ । राजतेऽसौ राजा । धन्व गतौ | धन्वतीति धन्वा । यु मिश्रणे । यौतीति युवा । यु गतौ । धौतीति युवा । प्रतिदीव्यतीति प्रतिदिवा । वृषु वृद्धौ । वर्षतीति वृषा । तक्षू तनूकरणे । तक्ष्णोति तक्षा । दंशतीति दश । पचि विस्तारे । पचि संख्याने । इत् ि| जस्शसोर्लुक् । पञ्चतीति पञ्च । षपू संबन्धे । षप् गणने । अशू व्याप्तौ । षपेरशेः किति तुक् वक्तव्यः । सपन्ति ते सप्त । अभ्रुवते इति अष्ट । णु स्तुतौ । अस्य गुणः । नुवन्ति ते नव । मह पूजायाम् । अस्य धान्तादेशो वुगागमश्च निपात्यते कन्प्रत्यये परे । मह्यते इति मघवा । इति राजादयः । इस्मन्त्रासुकः सर्वधातुभ्यः । सर्वधातुभ्यः (इस् मन् त्र असुक् इत्येते प्रत्यया भवन्ति । राजादेरिति राजदीप्ते इत्यादेर्द्धातोः अन्प्रत्ययो भवति । राजते राजा राजू अभूप्र० स्वर० नोपधायाः हसेपः नानो० यु मिश्रणे यु भन् नुधातोरित्युव० स्वर० पौतीति युवा ।
1
,
वचादेरस् । बच्चादेर्धातोरस् प्रत्ययो भवति वा सर्वधातुभ्यो Sस्प्रत्ययः । उच्यते इति वचः । मह्यते इति महः । पी पाने । पीयते तत् पयः । पिबतेरपि । पिबतेर्धातोरसुन्प्रत्ययो भवति इकारान्तादेशश्च । पीयते इति पयः । तिज् निशाने क्षमायां च । तितिक्षतीति तेजः । तप्यते इति